Book Title: Sambodhi 1996 Vol 20
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 188
________________ 180 नारायण म. कंसारा SAMBODHI गुरुत्वद्वत्वसंस्कारवती ।] रूपेति । सर्वेषां नित्यत्वे घटादीनां द्रव्यत्वापत्तिः । सर्वानित्यत्वेऽनवस्था स्यात । इत्यतः । [सा च द्विविधा, नित्यानित्या च । नित्या परमाणुरूपा । अनित्या च कार्यरूपा ।] सा नित्यानित्येति । द्विविधायाः पृथिव्या रूपगन्धस्पर्शा अनित्या: पाकजाश्च । पाकस्तु तेजःसंयोगः । तेन पृथिव्याः पूर्वरूपादयो नश्यन्त्यन्ये जन्यन्त इति पाकजाः ॥ अप्त्वसामान्ययुक्ता आपः । रसनेन्द्रियशरीरसरित्समुद्रहिमकरकादिरूपाः । गन्धवर्णस्नेहयुक्तपूर्वोक्तगुणवत्यः ।] गन्धवर्णेति । एते पूर्ववत् सिद्धाः रूपरसस्पर्शवत्य आपो द्रव्याः, स्निग्धाश्च । सङ्ख्यादयश्चाक्षुषाः । पतनाऽगुरुत्वं उत्तरकर्मतः संस्कार इति ॥ [तेजस्त्वसामान्यवत् तेजः । चक्षुःशरीरसवितृसुवर्णवह्निविद्युदादिप्रभेदम् ।...तच्चतुर्विधम् । उद्भूतरूपस्पर्शम्, अनुद्भूतरूपस्पर्शम्, अनुद्भूतरूपमुद्भूतस्पर्शम्, उद्भूतरूपमनुद्भूतस्पर्शञ्चेति ।] उद्भतेति । इन्द्रियग्रहणयोग्यतापादको धर्मविशेष उद्भूतः, तविपरीतोऽनुद्भत इति । उद्भूतौ रूपस्पर्शी यस्येत्यर्थः । एवमनुद्भुतौ रूपस्पर्शी यस्येत्यर्थः । क्रमेणोदाहरति । [उद्भूतरूपस्पर्श यथा सौरादितेजः पिण्डीभूतं तेजो वन्यादिकम् ।] यथेति ॥ सुवर्णं तूभृताभिभूतरूपस्पर्शम् । सुवर्णमिति । इदमप्युद्भूतरूपस्पर्शस्योदाहरणम् । सुवर्णस्पर्शोऽनुद्भूतः त्वचा पार्थिवभाग एव गृह्यते । एवेत्यन्यराद्धान्तः । स्पर्शेति । उपलक्षणमेतत् । किन्तु स्पर्शशब्दधतिकम्पलिङ्गत्वं वायोः । ननु सुवर्णं पार्थिवं, नैमित्तिकद्रवत्वाद् घृतवद् इति चेन्न, विमतं पार्थिवं न, पाकनिर्वत्यरूपत्वात्, तोयवद् इति सत्प्रतिपक्षात् । न तु विमतं तैजसं पार्थिवापाभ्यामन्यत्वे सति रूपवत्त्वात प्रदीपवद् इति ॥ ॥ कार्यद्रव्याणामुत्पत्तिविनाशक्रमः ॥ [कारणगुणा हि कार्यगुणानारभन्ते । कारणागुणा हीति ।] समवायिकारणगुणा हीति पाकजन्यघटपटादिनिष्ठैकत्वाऽसमवायिकारणकद्वित्वादिधटपटसंयोगादिभिन्नकार्यगुणजनका इत्यर्थः । पाकेनाजन्यं यत् घटपयदिनिष्ठैकत्वं तदेवासमवायिकरणं यस्य द्वित्वादेः स पाकाजन्यः । अत एव वदन्ति अपाकजा रूपरसगन्धस्पर्शाः, परिणामरूपत्वगुरुत्वद्वत्वस्नेहादयश्च कारणगुणाप्रभवा इति ॥ [इत्थमुत्पन्नस्य रूपादिमतः कार्यद्रव्यस्य घटादेरवयवेषु कपालादिषु नोदनाद् अभिघाताद् वा क्रिया जायते ।] नोदनादिति । वेगरहित स्पर्शवद्रव्यसंयोगादित्यर्थः । अभिघातादिति । स्पर्शवद्वेगवद्व्यसंयोगादित्यर्थः ॥ प्रत्यक्षसिद्धं त्र्यणुकं कक्षीकृत्य व्यणुकं साधयति । [यदिदं जालं सूर्यमरीचिस्थं सर्वतः सूक्ष्मतमं रज उपलभ्यते तत् स्वल्पपरिमाणद्रव्यारब्धं कार्यदव्यत्वाद् घटवत् । तच्च दव्यं कार्यमेव महद्दव्यारम्भकस्य कार्यत्वनियमात् । तदेवं व्यणुकाख्यं द्रव्यं सिद्धम् ।] तदिति । द्रव्यत्वाद् इत्युक्ते गगनादावनैकान्तिकत्वम् । अत उक्तं कार्येति । केवलं 'कार्येति' उक्ते शब्दादावनैकान्तिकत्वम् । अत उक्तं 'द्रव्यत्वाद्' इति । न चायमसिद्धो हेतुः । विमतं कार्यत्वं चाक्षुषत्वाद्, घटवदिति । किञ्च व्यणुककार्यस्य परमाणु समवायिकारणं, तत्संयोगोऽसमवायिकारणम्, अदृष्टादि निमित्तकारणम् । व्यणुकसंयोगकार्यस्य परमाण समवायिकारणं, तदेकत्वद्वयमसवायिकारणम्, अपेक्षाऽदृष्टादि निमित्तकारणम् । व्यणुकपरिमाणकार्यस्य परमाणू समवायिकारणं, द्वित्वमसमवायिकारणम् अदृष्टादिनिमित्तकारणम् । अत्रेश्वरेच्छाजन्यत्वं सर्वत्रापि । व्यणुककार्यस्य व्यणुकादीनि समवायिकारणम् । तत्संयोगोऽसमवायिकारणं क्रियाऽदृष्टादि निमित्तकारणम् । एवं क्रमेण महती

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220