Book Title: Sambodhi 1996 Vol 20
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 187
________________ Vol. xx, 1996 तर्कभाषावार्तिकम् 179 त्वाचज्ञानजनकतया तत्रातिप्रसक्तिवारणाय 'अतीन्द्रियत्वम्' । [तत्र गन्धोपलब्धिसाधनमिन्द्रियं घ्राणम् ।] गन्धेति । असाधारणव्यापारवद्गन्धोपलब्धिसाधनमित्यर्थः । अतो न मनसि, न चासन्निकर्षेऽतिप्रसङ्ग । सुरभिदुरभ्यवयवारब्धे घ्राणेऽतिव्याप्तिवारणाय 'उपलब्धि' इति । ननु इन्द्रियमतीन्द्रियघ्राणं च ऐन्द्रियकम् । अत एव तत्कथम् ? अत आह - 'नासाग्रवति' इति । [यदिन्द्रियं रूपादिषु पञ्चसु मध्ये यं गुणं गृह्णाति तदिन्द्रियं तद्गुणसंयुक्तं, तथा चक्षू रूपग्राहक रूपवत् । तद्गुणसंयुक्तमिति तज्जातीयगुणवदित्यर्थः स्नेहादिग्राहकमपि चक्षुरादि न तद्वदित्यनतिप्रसक्तये रूपादिष्वेत्याधुक्तम् ॥ [ रसोपलब्धिसाधनमिन्द्रियं रसनम् । जिह्वाग्रवति । तच्चाप्यं रसवत्त्वात् । रसत्वं च रूपादिषु पञ्चसु मध्ये रसस्यैवाभिव्यञ्जकत्वालालावत् ।] रसस्यैवेति । मनसि व्यभिचारवारणाय एवशब्दः । अप्रसिद्धिवारणाय मध्य इत्यन्तम् ॥ [शब्दोपलब्धिसाधनमिन्द्रियं श्रोत्रम् । तच्च कर्णशष्कुल्यवच्छिन्नमाकाशमेव, न द्रव्यान्तरं शब्दगुणत्वात् । तदपि शब्दग्राहकत्वात् ।] शब्द इति । ननु आकाशस्य श्रोत्रत्वेन सर्वदा सत्त्वादबधिरस्यापि शब्दोपलब्धिप्रसङ्ग इति चेन्मैवम् । शब्दश्रवणजनितसुखदुःखानुभवप्रापकधर्माधर्मविशिष्टस्यैव नभोदेशस्य श्रोत्रत्वाभ्युपगमेन तादृशादृष्टवैकल्यसाकल्याभ्यां बधिरत्वाबधिरत्वोपपत्तेः, इन्द्रियसद्भावे प्रमाणपृच्छा च । [ननु चक्षुरादीन्दियसद्भावे किं प्रमाणम् ? उच्यते । अनुमानमेव ।] नन्विति । अनुमानमेव प्रमाणमित्याह । उच्यते इति । किमिदमक्रियात्वं विवक्षितं, धात्वर्थरूपत्वं, परस्पन्दनरूपत्वं वा ? नाद्यः, निमित्तमात्रसाध्ये प्रध्वंसादावनेकान्तिकत्वात्, न द्वितीयः, असिद्धत्वात्, इति सेयमुभयतः पाशारज्जुरिति चेत्, तदसारं, क्रियात्वं कार्यत्वमितिविवक्षितत्वात् । कार्यत्वं वा भूत्वा भावित्वमिति न कश्चिद् दोषः । [तथाहि रूपाद्युपलब्धयः करणसाध्याः क्रियात्वात्, छिदिक्रियावत् ।] करणेति । तत्तदुपलब्धौ तत्तदसाधारणजन्यत्वमनुमेयम् । अतो मनसा नार्थान्तरम् । चक्षुरादीनामसाधारणकत्वम् असाधारणकरणत्वं विना चाक्षुषत्वादिकमाकस्मिकं स्यादित्यादयस्तर्का अन्त:करणादेर्यथाकथञ्चिदसाधारणत्वे त्वाचादरपि चाक्षुषज्ञानाद्यापत्तिरित्यादयः ॥ [अर्थाः] [अर्थाः षट्पदार्थाः । ते च दव्यगुणकर्मसामान्यविशेषसमवायाः ।] अर्थेति । ननु द्रव्यादिषु षट्सु पदार्थेषु प्रमाणादीनां षोडशपदार्थानां यथासम्भवमन्तर्भावस्य वक्तुमशक्यत्वात् पृथक् प्रमाणादौ षोडशपदार्थनिरूपणमनुपपन्नं, लाघवे सम्भवति गौरवस्यानाश्रयणीयत्वाद् इतीमां शङ्कां निरस्यति । [प्रमाणादयो यद्यप्यत्रैवान्तर्भवन्ति तथापि प्रयोजनवशाद् भेदेन कीर्तनम् ।] प्रमाणादय इति । अयं भावः । न्यायशास्त्रप्रतिपादितानां प्रमाणादीनां साक्षान्निःश्रेयसाङ्गत्ववत्, द्रव्यादीनां तदभावात् षोडशपदार्थवादोऽयुक्तः । ननु प्राधान्येन षट्पदार्थवादः प्रयोजनमिति प्रमाणत्वादिरूपेण तत्तद्विलक्षणप्रयोजनजनकाः प्रमाणादय इति द्रव्याद्यन्तर्गता अपि पृथगुद्दिष्टा इत्यर्थः ॥ [पृथिव्यादिद्रव्याणि ॥] स्थूलपृथिव्याः कार्यत्वम्[इति] प्राभाकराः । तान् क्षेप्तुं प्रयोगः । विमता पृथ्वी कार्या, सावयवत्वात् । सम्मतं यत् सावयवत्वम् । कुतः ? काठिन्यकोमलत्वाद् इति सिद्धम् । [तत्र पृथिवीत्वसामान्यवती पृथिवी काठिन्यकोमलत्वाद्यवयवसंयोगविशेषेण युक्ता । घ्राणशरीरमृत्पिण्डपाषाणवृक्षादिरूपा ।] शरीरेत्यादिनाद्यद्रव्यसाधकगुणानाह । [रूप रसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्व

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220