Book Title: Sambodhi 1996 Vol 20
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 185
________________ Vol. XX, 1996 तर्कभाषावार्त्तिकम् निविष्टग्रहणत्वात्, जातिग्रहणसामग्या इत्यभिप्रेत्याह - तयेति ॥ [तथाहि इदं किल परस्याभिमतम् । घटविषये ज्ञाने जाते 'मया ज्ञातोऽयं' घटः 'इति घटस्य ज्ञातता प्रतिसन्धीयते । तेन ज्ञाने जाते सति ज्ञातता नाम कश्चिद् धर्मो जात इत्यनुमीयते । स च ज्ञानात् पूर्वमजातत्वात्, ज्ञाने जाते च जातत्वादन्वयव्यतिरेकाभ्यां ज्ञानेन जन्यत इत्यवधार्यते ।] इदं किलेति पराभिमतं पराकर्तुमनुभाषते, 'इदम्' इत्यादिना । तेनेति ज्ञातत्वप्रतिसन्धानेनेत्यर्थः प्रकाशभावपक्षवादिना न स्वीकृत इति कृत्वोक्तमनुमीयते इति विषयान्यथानुपपत्त्या विषयोऽनुमीयत इत्यर्थः ॥ [ननुज्ञानजनितज्ञातताधारत्वमेव हि घटादेनिविषयत्वम् । तथाहि न तावत् तादात्म्येन विषयता, विषयविषयिणोर्घटज्ञानयोस्तादात्म्यानभ्युपगमात् । ] तादात्म्येनेति अर्थज्ञानयोः स्वरूपत्वेनाभेदसम्बन्धतेत्यर्थः । [ तदुत्पत्त्या तु विषयत्वे इन्द्रियादेरपि विषयत्वापत्तिः ।] तदुत्पत्त्येति तस्मात् घटाद उत्पत्तिर्ज्ञानस्य, तयेति । ननु ज्ञानोत्पादको ज्ञानविषयोऽत आह 'घटज्ञानवानहम्' इत्यत्रानुव्यवसायनामकं ज्ञानज्ञानं, 'ज्ञेयं जातो घटः' इत्यत्र ज्ञानजन्यज्ञेयनिष्ठज्ञातता नाम कश्चिद् धर्मः समुत्पन्नस्तेनार्थापत्त्या ज्ञानं गृह्यतेऽनुमानेन च प्रामाण्यमित्यर्थः । [एवं च ज्ञानजन्योऽसौ ज्ञातता नाम धर्मो ज्ञानमन्तरेण नोपपद्यते, कारणाभावे कार्यानुदयात् ।] एवं चेति । अनभ्यासदशापन्नज्ञानप्रामाण्यं यदि स्वतो ग्राह्यं तदा संशयो न स्यादित्यपि दूषणमित्याह-प्रामाण्यमिति । ज्ञानोपनीतं तन्मनसा क्वचिदवसीयते तेन एतावता स्वतस्त्वं, तदप्रामाण्याविषयकयावत्तज्ज्ञानविषयत्वाभावाद् इत्याचूह्यम् । स्वतस्त्वं नाम ज्ञानग्राहकसामग्रीग्राह्य, यया ज्ञानं तया तद्गतप्रामाण्यमपीति ॥ ननु प्रामाण्यं प्रमाणधर्मो वा प्रमाधर्मो वा । नाद्योऽत्र प्रमाणधर्मासम्भवात् । द्वितीयो घटते प्रमाधर्मः याथार्थ्यमित्यर्थः । ज्ञानप्रामाण्यलक्षणमाह - तद्वद्विशेष्यकत्वे सति तत्प्रकारकत्वं प्रामाण्यं, जलत्ववद्विशेष्यकत्वे सति जलत्वप्रकारकत्वं प्रामाण्यमित्यर्थः । तद्वत्कारकत्वं प्रामाण्यमित्युक्ते 'इदं रजतम्' इति भ्रमज्ञानेऽतिव्याप्तिः । कथम् ? तत्र रजतत्वस्य प्रकारकत्वेनभावाद् रजतत्वाभाववतश्च शुक्तिकाशकलस्य विशेष्यत्वात् । तन्निरासाय 'तद्वद्विशेष्यकत्वे सति' इति ग्राह्यम् । तथा तद्विशेष्यका तत्प्रकारिका प्रमा । जलत्ववद्विशेष्यकं जलत्वप्रकारकं प्रमेत्यर्थः । ज्ञानेन भासमानो धर्मोऽत्र प्रकार इति बोध्यम् । इति चत्वारि प्रमाणानि विवृण्वता प्रमाणपदार्थो विवृत्तः ॥ ॥ प्रमेयनिरूपणम् ॥ [आत्मा ।] अथ प्रमेयपदार्थ लक्षयति । ['आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्' इति सूत्रम् । तत्रात्मत्वसामान्यवानात्मा । स च देहेन्द्रियादिव्यतिरिक्तः, प्रतिशरीरं भिन्नोनित्यो विभुश्च । स च मानसप्रत्यक्षः ।] आत्मत्वसामान्यवानिति । देहेति । किण्वादिभ्यो मदशक्तिवशाद देहाकारपरिणतेभ्यो भूतेभ्यश्चेतनस्योत्पत्तेः स्थूलेऽहमिति सामान्याधिकरण्यवत् स्थूलत्वादेश्च देहे धर्मत्वाच्चैतन्येऽपि विशिष्टदेहमात्रमात्मेति चार्वाकाः । सुषुप्त्यवस्थायां सत्यपि शरीरे चक्षुरादीनामुपरमे रूपादिभिर्जानाभावाद दूरगोष्ठीवत् परस्परगुणप्रधानभावेनानुरोध- सम्भवात् कारणाद् अतीन्द्रियाणामेवाहमालम्बनत्वमन्ये । स्वप्नावस्थायां चक्षुराद्युपरमेऽपि मनस्येव सर्वव्यापारोपपत्तेर्मन एवाहमित्यपरे । एतान् प्रतिक्षिपति - देहेति । एतत्त्रितयव्यतिरिक्त आत्मेत्यक्षरार्थः । न देह आत्मा, बाह्येन्द्रियग्राह्यत्वात्, घटवत् । 'याऽहं बाल्ये पितरावन्वभवं स एव स्थाविरे पितॄन् अनुभवामि' इति । न इन्द्रियाणि, आत्मनः करणत्वाद्, वाक्यादिवत् । चक्षुषि नष्टेऽपि 'योऽहं चक्षुषा

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220