Book Title: Sambodhi 1996 Vol 20
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 183
________________ Vol. xx, 1996 तर्कभाषावार्तिकम् 175 ननूद्देशलक्षणपरीक्षाणां क्वान्तर्भावः ? उच्यते । अनुमाने । कथम् ? प्रमाणमितरेभ्यो भिद्यते, प्रमाकरणत्वात् । एवं प्रमेयमपीति । अत्र प्रमाणस्योद्देशत्वेन पक्षेऽन्तर्भावो, लक्षणस्य हेतावन्तर्भावः, परीक्षापि लक्षणस्यैवेत्यर्थः । अनुपपत्तिज्ञानं करणं, स्वरूपसत्यननुपपत्तिरेव वा करणं, रात्रिभोजनादिप्रमा फलं निर्व्यापारमेव करणमितिभावः ॥ [। अर्थापत्तिविचारणा ।] भाट्टमतं दूषयितुमुत्थापयति । [नन्वर्थापत्तिरपि पृथक् प्रमाणमस्ति । अनुपपद्यमानार्थदर्शनात् तदुपपादकीभूतार्थान्तरकल्पनम् 'अथापत्तिः' ।] नन्वर्थापत्तिरिति । प्रमाणमिति प्रमितिरित्यर्थः । तेन तत्करणत्वेनानुपपत्तिज्ञानाप्तिरेव तत्र प्रमाणं न मन्तव्यमित्याशयः । तमेव प्रथमतो व्यवस्थापयति - [तथाहि, पीनो देवदत्तो दिवा न भुङ्क्ते इति दृष्टे श्रुते वा रात्रिभोजनं कल्प्यते ।] तथा हीति । रात्रिभोजनमिति तद्वाचकः शब्द इत्यपि बोध्यम् । तेन श्रुते इत्यनेन विरोधो न भवतीति ध्येयम् । प्रमाणं प्रमिति: प्रत्यक्षादिप्रमाभ्यः दिवाभुञ्जानत्वे सति पीनत्वादिति योगभोगिभिन्नत्वे सत्यपीति बोध्यम् । अत्र पदकृत्यमाह - पीनत्वादित्युक्ते दिवाभोजनप्रयुक्तपीनत्ववति रात्रिभोजनविरहिणि पुरुषे व्यभिचारः । तन्निरासाय दिवाभुञ्जानत्वे सतीति तावत्युक्ते दिवाभोजनरहिते रात्रिभोजनाभाववति कशपुरुषे व्यभिचारः । तन्निरासाय पीनत्वादि ज्ञेयम् । [ केवलव्यतिरेक्यनुमानेनैव रात्रिभोजनस्य प्रतीयमानत्वात्, किमर्थमर्थापतिः पृथक्त्वेन कल्पनीया ?] [॥ अभावः ॥] [दण्डपुरुषोविशेषणविशेष्यभावो न ताभ्यां भिद्यते । न हि दण्डस्य विशेषणत्वमर्थान्तरं, नापि पुरुषस्य विशेष्यत्वमर्थान्तरमपि तु स्वरूपमेव । अभावस्यापि विशेषणत्वाद् विशेष्यत्वाच्च ।] अभावस्यापीति । पूर्वोक्तदण्डादिभाववदभावस्यापि विशेषणत्वादित्यर्थः । नन्वभावस्य विशेषणत्वेऽपि तस्यार्थान्तरत्वं भवतु, को दोषः ? इत्याशक्य [आह - ] अविशेषणस्यार्थान्तरत्वे द्रव्यादीनामन्यतमत्वेन भवितव्यम् । तदन्यतमभावे न सम्भवति, अभावस्य भावाधिकरणत्वासम्भवाद्, न चाभावे कस्यचित् पदार्थस्य दव्याद्यन्यतमस्य सम्भवः ] इति । न चाभाव इति, उदाहरणम् - 'दण्डी पुरुषः' इत्यत्र दण्डपुरुषयोर्विशेषणविशेष्यभावो न ताभ्यां भिद्यते । यो दण्डी स एव पुरुषो, यः पुरुषः स एव दण्डी' इति । सम्बन्धश्च भिन्नोभयाश्रितैकलक्षण इति स्वोपरक्तेति स्वविशिष्टप्रत्ययजनकत्वमित्यर्थः । अभावस्यापीति । अभावस्य व्यापकत्वं कारणत्वं च दर्शयति । यथा घटप्रागभावरूपस्य मृत्पिण्डस्य घटं प्रति व्यापकत्वं घटकारणरूपस्य मृत्पिण्डस्य घटं प्रति कारणत्वं चास्ति, तथा 'इदं भूतलं घटाभाववत्' इत्यत्र इदन्ताविशिष्टभूतले घटाभावोऽन्यत्रापि घटाभावो, नो व्यापकत्वं, अभावस्य विषयकज्ञानजनकत्वे न कारणत्वं च घटाभावस्येति । [तस्माद् विशेषणविशेष्यभावो न सम्बन्धः ।] तस्मादिति । ननु 'इदं भूतलं घाभाववद्' इत्यत्र भूतलं विशेष्यं घयभावो विशेषणम्, 'इह भूतले घटभावः' इत्यत्र सप्तम्यन्तं विशेषणमिति न्यायाद् भूतलं विशेषणं घटाभावो विशेष्यमिति विशेषणविशेष्यभावसम्बन्धोऽस्तीति चेत्, न, विशेषणविशेष्यभावस्तु सम्बन्ध एव नास्ति यतो विशिष्यते यत् तद् विशेषणं, विशेष्यतेऽनेनेति विशेष्यं, विशेषणमिति यावद्, विशेषणविशेष्ययोः कामचारादिति वस्तुस्वरूपसम्बन्ध एव नियामक इति ॥ [तथा चासम्बद्धस्याभावस्येन्द्रियेण ग्रहणं न सम्भवति ।] तथा चेति । यद्यदिन्द्रियं तत् तत् सम्बद्धमेव प्रकाशयतीति यदुक्तं तद् ङ्गी क्रियते, पर त्वस्या व्यवस्थाया भावमात्रविषयत्वाद् असम्बद्धस्याभावस्येन्द्रियग्राहकत्वं न हीयते । कुतः ? अभावावच्छिन्नत्वाद्, इति तस्याव्याप्तेर्भावमात्रविषयतया

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220