Book Title: Sambodhi 1996 Vol 20
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

Previous | Next

Page 180
________________ 172 नारायण म. कंसारा SAMBODHI समबलत्वमादाय प्रकरणसमत्वोपपत्तेरिति ॥ ॥ उपमानम् ॥ अतिदेशवाक्यार्थस्मरणसहकृत गोसादृश्यविशिष्टपिण्डज्ञानमुपमानमिति । अगृहीतसङ्केतपदोपेतवाक्यमतिदेशवाक्यम् । यद् वाऽतिदिश्यते प्रतिपाद्यतेऽनेन साधादिरित्यतिदेशः । स चासौ वाक्यं चेति समासेनातिदेशवाक्येन प्रमितात् साधादनन्तरं साध्यस्यं साधनं ज्ञापकं सादृश्यविशिष्टपिण्डप्रत्यभिज्ञानमुप मानमिति । उक्तं च - अव्युत्पन्नपदोपेतवाक्यार्थस्य च संज्ञिनि । प्रत्यक्षप्रत्यभिज्ञानमुपमानमिहोच्यते ॥१॥ सादृश्येति तद्भिन्नत्वे सति तद्गतभूयोऽसाधारणधर्मवत्त्वमित्यर्थः । पिण्डज्ञानमुपमानमित्युक्ते पिण्डविषयकनिर्विकल्पकेऽतिव्याप्तिः । तन्निरासाय विशिष्टेति तावत्युक्ते पिण्डविषयकप्रमेयज्ञानेऽतिप्रसक्तिः । तद्वारणाय सादृश्येति सादृश्यपदं सापेक्ष्यमिति गोपदं गृह्यते । तावत्युक्तेऽश्रुतातिदेशवाच्यगोसादृश्यविशिष्ट-" पिण्डज्ञानेऽतिप्रसक्तिः । तदर्थेऽतिदेशवाक्यार्थस्मरणसहकृतेति ॥ सैव फलमिति । न च वाक्यफलम्, अननुभूतपिण्डस्यापि संज्ञासंज्ञिसम्बन्धप्रतिपत्तिप्रसङ्गात् । नापि प्रत्यक्षफलम्, अनाकणितातिदेशवाक्यस्यापि तत्प्रसङ्गात् । नापि समाहारफलं, नगरस्थस्य वाक्यं न च स्वस्य प्रत्यक्षमिति तयोभिन्नकालत्वेन समाहारासम्भवात् । नाप्यनुमानफलं, लिङ्गस्य तृतीयज्ञानरूपो लिङ्गपरामर्शः, तस्यात्रासम्भवात् । तस्मादुपमितिरुपमानफलमेव । तदुक्तम् - सम्बन्धस्य परिच्छेदं संज्ञायाः संज्ञिना सह । प्रत्यक्षादेरसाध्यत्वाद् उपमानफलं विदुः ॥१॥ अथोपमानं द्विविधं, साधर्म्य वैधय॑ च । तत्र साधर्म्य 'यथा गौस्तथा गवयः' इति । वैधयं तु 'कीदृग उष्ट्रः' इति प्रश्न उत्तरमाह 'प्रलम्बोष्ठः कण्टकाशी' इत्यादिवैधर्म्यश्रवणे सति तादृशस्य वैधर्म्यस्योपलम्भे प्रलम्बोष्ठत्वे कण्टकाशित्वं वैधय॑मिति तद्वाक्यार्थस्मरणे सति यत्र शक्तिः प्रमा उष्ट्रपदवाच्योऽयमित्याकारा भवति तत्र ज्ञातव्यमिति गोवर्धन्याम् ॥ ॥शब्दः ॥ अथागमप्रमाणमाह । आप्तवाक्यं शब्द इति । वाक्यं शब्द इत्युक्ते 'घटमानय' इति वाक्येऽतिप्रसक्तिः। तन्निरासाय आप्तेति तावत्युक्ते ऽसम्भवः । तद्वारणाय वाक्येति । शब्द इति शब्दप्रमाणमित्यर्थः । यथा दृष्टार्थदर्शिनः पुंसो यथादृष्टार्थवादिनः । उपदेशः परार्थो यः स इहागम उच्यते ॥२॥ आप्तो द्विधा, लौकिकोऽलौकिक: । लौकिक: शिष्टादिः । अलौकिक ईश्वरः । तद्वाक्यं द्विविधं, वैदिकं लौकिकं च । तत्र प्रथमं वैदिकस्योदाहरणं द्वितीयं लौकिकस्येति । [आप्तस्तु यथाभूतस्यार्थस्योपदेष्टा पुरुषः ।] आप्तस्त्विति । अत्र तुशब्दः भ्रान्तविप्रलम्भकयोराप्तत्वनिरासार्थः । कुतस्तयोस्तन्निरास: ? तत्र युक्तिमाह । भ्रान्तस्य याथार्थ्यदर्शित्वाभावात, विप्रलम्भकस्य च यथार्थदर्शित्वेऽपि यथार्थवादित्वाभावात् ॥ ननु यथाभूतं यथानुभूतं तथावर्तमानत्वं वा ? नाद्यः, वस्तुतो निर्घट भूतलं घटवत्त्वेनाज्ञात्वा

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220