Book Title: Sambodhi 1996 Vol 20
Author(s): Jitendra B Shah, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 179
________________ Vol. xx, 1996 तर्कभाषावार्तिकम् 171 [साध्यव्यापकत्वे सति साधनाव्यापक उपाधिरित्युपाधिलक्षणम् ।] साध्ये ति । यावत्साधनदेशेऽवर्तमानो यावत्साधनदेशवतिरुपाधिरिति । उक्तं च - एकसाध्याविनाभावे मिथः सम्बन्धशून्ययोः । साध्याभावाविनाभावी स उपाधिर्यदत्ययः ॥१॥ साध्यव्यापक उपाधिरित्युक्ते 'शब्दोऽनित्यः, कृतकत्वाद्, घटवद्' इत्यत्र प्रमेयत्वमुपाधिः । तथा 'अनित्यो घटः, सावयवत्वात्, पटवत्' । अत्रानित्यत्वे साध्ये कृतकत्वमुपाधिरित्यपि । अत उक्तं - साधनाव्यापकेति । तावत्युक्ते पूर्वानुमाने सावयवत्वमुपाधिः । कथम् ? यत्र यत्र कृतकत्वं तत्र सावयवत्वं नास्ति, यथा रूपादौ कृतकत्वं वर्तते, सावयवत्वं नास्ति । अत उक्तं-साध्यव्यापक [इति] । अत्र साध्यत्वेन साधनत्वेनाभिमतत्वं ग्राह्यम्, अतो नासम्भव इति ॥ [सव्यभिचारोऽनैकान्तिकः । स द्विविधः, साधारणानकान्तिकोऽसाधारणानैकान्तिकश्च । तत्र पक्षसपक्षविपक्षवृत्तिः साधारणः । सपक्षाद्विपक्षाद् व्यावृत्तो यः पक्ष एव वर्तते सोऽसाधारणानैकान्तिकः ।] पक्षेति । सव्यभिचारोऽनैकान्तिकः । साध्यात्यन्ताभावासमानाधिकरण्यं व्यभिचारः । विपक्षवृत्तिः साधारणानैकान्तिक इत्युक्ते विरुद्धहेतावतिव्याप्तिः । कथमिति चेत्, 'नित्यः शब्दः कृतकत्वात्, व्योमवत्' [इत्यत्र] 'व्योमवत्' इति नित्यत्वे साध्ये नित्यानां सपक्षता, अनित्यानां विपक्षता' । अनित्यत्वे साध्येऽनित्यानां सपक्षता नित्यानां विपक्षता इति न्यायाद् घटादौ विपक्षे कृतकत्वस्य विद्यमानत्वात् । अत उक्तं सपक्षविपक्षवृत्तिरिति । तावत्युक्ते स्वरूपासिद्धेऽतिव्याप्तिः । कथम् ? शब्दोऽनित्यः, चाक्षुषत्वात् । चाक्षुषत्वं हेतुर्नित्यत्वे सामान्यादौ अनित्यत्वे पटादौ च वर्तते । अत उक्तं पक्षेति । पक्षविपक्षवृत्तिरित्युक्ते विरुद्धेऽतिव्याप्तिः, प्राग्वत् । अत उक्तं सपक्षेति । सपक्षवृत्तिरित्युक्ते स्वरूपासिद्धेऽतिव्याप्तिः । कथमिति चेदुच्यते। 'गगनमनित्यं सावयवत्वात्, घटवत्' । अत्र सावयवत्वं हेतुः सपक्षे घटादौ वर्ततेऽतः पक्षसपक्षविपक्षवृत्तिः साधारणानैकान्तिक इति व्यवस्थितमिति । सपक्षविपक्षाद् व्यावृत्तः पक्ष एव वर्तमानोऽसाधारणानैकान्तिकः । सपक्षाद् व्यावृत्त असाधारणानैकान्तिक इत्युक्ते विरुद्धेऽतिव्याप्तिः । अत उक्तं विपक्षव्यावृत्त इति । सपक्षविपक्षाद् व्यावृत्त इत्युक्ते स्वरूपासिद्धेऽतिव्याप्तिः । कथम् ? 'शब्दो नित्यः, सावयवत्वात्, घटवत्' । अत्र सावयवत्वं हेतुः सपक्षाद रूपादेविपक्षादाकाशादेावृत्तम् । अत उक्तं पक्ष एव वर्तमान इति । सपक्षविपक्षाव्यावृत्तः पक्ष एव वर्तमान इत्युक्ते भागासिद्धेऽति व्याप्तिः । कथम् ? 'नित्याः परमाणवः, गन्धवत्वात्, व्योमवत्' । अत्र गन्धवत्त्वं हेतुः सपक्षादाकाशाद् व्यावृत्तः, विपक्षादबादेया॑वृत्तः पार्थिवपरमाणुष्वेव वर्तमानः । अत उक्तं भागेति । अतः सपक्षविपक्षाव्यावृत्तः पक्ष एव वर्तमानोऽसाधारणानैकान्तिक इति व्यवस्थितम् ॥ ननु स्वोचितस्थलमतिक्रम्यान्यत्र वर्तते सव्यभिचार इति लोके प्रसिद्धं, तत् तु साधारणेऽस्तिपक्षमात्रवृत्तेः । स्वसाधारणस्य कथं व्यभिचारितेति चेद्, एतावत् तावद् आकर्णय, अनुचितस्थले वर्तनमिवोचितस्थलेऽवर्तनमपि व्यभिचार एव ॥ . [प्रकरणसमस्तु स एव यस्य हेतोः साध्यविपरीतसाधकं हेत्वन्तरं विद्यते ।] प्रकरणेति । प्रतीज्ञार्थविपरीतार्थज्ञापकहेतुमानहेतुः प्रकरणसमेति । ननु इमौ हेतू समबलौ हीनाधिकबलौ वा । नाद्यो, वस्तुनो द्वैरूप्यासम्भवेन तुल्यबलत्वायोगात् । नेतरो, प्रबलेन हीनस्य बाधितत्वेन । कालात्ययापदिष्टतया प्रकरणसमत्वानुपत्ते रिति चेत्, मैवं, वस्तुवृत्त्या द्वयोः समानबलाभावेऽपि गृहीतविशेषणत्वेनाभिमानिकं

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220