________________
Vol. xx, 1996 तर्कभाषावार्तिकम्
171 [साध्यव्यापकत्वे सति साधनाव्यापक उपाधिरित्युपाधिलक्षणम् ।] साध्ये ति । यावत्साधनदेशेऽवर्तमानो यावत्साधनदेशवतिरुपाधिरिति । उक्तं च -
एकसाध्याविनाभावे मिथः सम्बन्धशून्ययोः ।
साध्याभावाविनाभावी स उपाधिर्यदत्ययः ॥१॥ साध्यव्यापक उपाधिरित्युक्ते 'शब्दोऽनित्यः, कृतकत्वाद्, घटवद्' इत्यत्र प्रमेयत्वमुपाधिः । तथा 'अनित्यो घटः, सावयवत्वात्, पटवत्' । अत्रानित्यत्वे साध्ये कृतकत्वमुपाधिरित्यपि । अत उक्तं - साधनाव्यापकेति । तावत्युक्ते पूर्वानुमाने सावयवत्वमुपाधिः । कथम् ? यत्र यत्र कृतकत्वं तत्र सावयवत्वं नास्ति, यथा रूपादौ कृतकत्वं वर्तते, सावयवत्वं नास्ति । अत उक्तं-साध्यव्यापक [इति] । अत्र साध्यत्वेन साधनत्वेनाभिमतत्वं ग्राह्यम्, अतो नासम्भव इति ॥
[सव्यभिचारोऽनैकान्तिकः । स द्विविधः, साधारणानकान्तिकोऽसाधारणानैकान्तिकश्च । तत्र पक्षसपक्षविपक्षवृत्तिः साधारणः । सपक्षाद्विपक्षाद् व्यावृत्तो यः पक्ष एव वर्तते सोऽसाधारणानैकान्तिकः ।] पक्षेति । सव्यभिचारोऽनैकान्तिकः । साध्यात्यन्ताभावासमानाधिकरण्यं व्यभिचारः । विपक्षवृत्तिः साधारणानैकान्तिक इत्युक्ते विरुद्धहेतावतिव्याप्तिः । कथमिति चेत्, 'नित्यः शब्दः कृतकत्वात्, व्योमवत्' [इत्यत्र] 'व्योमवत्' इति नित्यत्वे साध्ये नित्यानां सपक्षता, अनित्यानां विपक्षता' । अनित्यत्वे साध्येऽनित्यानां सपक्षता नित्यानां विपक्षता इति न्यायाद् घटादौ विपक्षे कृतकत्वस्य विद्यमानत्वात् । अत उक्तं सपक्षविपक्षवृत्तिरिति । तावत्युक्ते स्वरूपासिद्धेऽतिव्याप्तिः । कथम् ? शब्दोऽनित्यः, चाक्षुषत्वात् । चाक्षुषत्वं हेतुर्नित्यत्वे सामान्यादौ अनित्यत्वे पटादौ च वर्तते । अत उक्तं पक्षेति । पक्षविपक्षवृत्तिरित्युक्ते विरुद्धेऽतिव्याप्तिः, प्राग्वत् । अत उक्तं सपक्षेति । सपक्षवृत्तिरित्युक्ते स्वरूपासिद्धेऽतिव्याप्तिः । कथमिति चेदुच्यते। 'गगनमनित्यं सावयवत्वात्, घटवत्' । अत्र सावयवत्वं हेतुः सपक्षे घटादौ वर्ततेऽतः पक्षसपक्षविपक्षवृत्तिः साधारणानैकान्तिक इति व्यवस्थितमिति ।
सपक्षविपक्षाद् व्यावृत्तः पक्ष एव वर्तमानोऽसाधारणानैकान्तिकः । सपक्षाद् व्यावृत्त असाधारणानैकान्तिक इत्युक्ते विरुद्धेऽतिव्याप्तिः । अत उक्तं विपक्षव्यावृत्त इति । सपक्षविपक्षाद् व्यावृत्त इत्युक्ते स्वरूपासिद्धेऽतिव्याप्तिः । कथम् ? 'शब्दो नित्यः, सावयवत्वात्, घटवत्' । अत्र सावयवत्वं हेतुः सपक्षाद रूपादेविपक्षादाकाशादेावृत्तम् । अत उक्तं पक्ष एव वर्तमान इति । सपक्षविपक्षाव्यावृत्तः पक्ष एव वर्तमान इत्युक्ते भागासिद्धेऽति व्याप्तिः । कथम् ? 'नित्याः परमाणवः, गन्धवत्वात्, व्योमवत्' । अत्र गन्धवत्त्वं हेतुः सपक्षादाकाशाद् व्यावृत्तः, विपक्षादबादेया॑वृत्तः पार्थिवपरमाणुष्वेव वर्तमानः । अत उक्तं भागेति । अतः सपक्षविपक्षाव्यावृत्तः पक्ष एव वर्तमानोऽसाधारणानैकान्तिक इति व्यवस्थितम् ॥
ननु स्वोचितस्थलमतिक्रम्यान्यत्र वर्तते सव्यभिचार इति लोके प्रसिद्धं, तत् तु साधारणेऽस्तिपक्षमात्रवृत्तेः । स्वसाधारणस्य कथं व्यभिचारितेति चेद्, एतावत् तावद् आकर्णय, अनुचितस्थले वर्तनमिवोचितस्थलेऽवर्तनमपि व्यभिचार एव ॥
. [प्रकरणसमस्तु स एव यस्य हेतोः साध्यविपरीतसाधकं हेत्वन्तरं विद्यते ।] प्रकरणेति । प्रतीज्ञार्थविपरीतार्थज्ञापकहेतुमानहेतुः प्रकरणसमेति । ननु इमौ हेतू समबलौ हीनाधिकबलौ वा । नाद्यो, वस्तुनो द्वैरूप्यासम्भवेन तुल्यबलत्वायोगात् । नेतरो, प्रबलेन हीनस्य बाधितत्वेन । कालात्ययापदिष्टतया प्रकरणसमत्वानुपत्ते रिति चेत्, मैवं, वस्तुवृत्त्या द्वयोः समानबलाभावेऽपि गृहीतविशेषणत्वेनाभिमानिकं