________________
10
नारायण म. कंसारा
SAMBODHI
स च केवलव्यतिरेकीति । ननु केवलव्यतिरेकि साध्यं क्वचित् प्रसिद्धं वाऽप्रसिद्ध वा, प्रसिद्धौ केवलव्यतिरेकत्वभङ्गप्रसङ्गोऽप्रसिद्धावप्रसिद्धविशेषणत्वमिति चेन्, मैवं; यतोऽप्रसिद्धविशेषणत्वं तस्य भूषणं, न तु दूषणम् । यद्येवं तर्हि शशविषाणोल्लिखितान्तर्भूत्वान्न । यदेवं तदेवं यथा गगनमित्यादिरपि साध्यसिद्धिरिति चेन् मैवम्, विपक्षे बाधकतर्कसाहित्याभ्यां साध्यसिद्ध्यसिद्धयोरुपपत्तेरिति ॥
[लक्षणमपि केवलव्यतिरेकी हेतुः । यथा पृथिवीलक्षणं गन्धवत्त्वम् । विवादपदं पृथिवीति व्यवहर्तव्यं, गन्धवत्त्वात् । यन्न पृथिवीति व्यवहियते तन्न गन्धवत्, यथाऽऽपः ।] लक्षणमपीति व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनं, यथा गौरितरेभ्यो भिद्यते सास्नादिमत्त्वात् । यत्रेतरभेदभिन्नत्वाभावस्तत्र सास्नादिमत्त्वाभावो यथाऽश्वः । यत्र सानादिमत्त्वं तत्रेतरभेदत्वं, यथा अमुक इति दृष्टान्ते नास्ति, गौमात्रस्य पक्षीकृतत्वादिति । विवादपदमिति । इदं काष्ठादिविवादपदं भूर्वा आपो वा । नैयायिक: प्राह-भूर्गन्धवत्त्वात पृथिवीति व्यवहर्तव्यं, यन्नैवं तन्नैवं, यथा आपः । यत्र पृथ्वीति व्यवहारो न तत्र गन्धवदप्येवमपि न इतरेभ्यो भिद्यते न वेति विवादपदमिति । प्रत्यक्षनिर्दोषदूषितेन्द्रियजन्यं ज्ञानं प्रत्यक्षाभासादि केवलान्वयीति विशेषोऽभिधेयः । प्रमेयत्वादत्राभिधाशब्दस्तविषयोऽभिधेयः प्रमाविषयः प्रमेयः ॥
ननु कथमस्य विपक्षाभावस्तभादिशब्दैरभिधेयानां प्रत्यक्षाप्रमेयान्तवर्तिनामनेकेषां सत्त्वादित्याशड्क्याभिधातृमात्रस्यानभिधेयस्य प्रमातृमात्रस्य प्रमात्रपेक्षया प्रमेयास्यार्थस्यासंभवादविद्यमानविपक्षत्वं युक्तमित्यभिप्रेत्याह- स च केवलान्वय्येवेति । नन्वस्तु पुरुषमात्रस्यानभिधेयोऽप्रमेयश्च नरविषाणादिः । स भवतु विपक्ष इति आह - [सर्वत्र हि प्रामाणिक एवार्थो दृष्टान्तः । स च प्रमेयश्चाभिधेयश्चेति ।] सर्वत्रेति । अप्रमाणिकस्य निषेधानहत्वमुक्तमाचार्यैः, लब्धरूपे क्वचित् क्वचित् तादृगेव निषिध्यते विधानमन्तरेणातो न निषिद्धस्य संभव इति । अनुमानस्य द्वे सामर्थ्य, व्याप्तिः पक्षधर्मता चेति । पक्षेति सन्दिग्धसाध्यधर्मी । धर्मी पक्ष इत्युक्ते विपक्षेऽतिप्रसक्तिः । तन्निरासाय साध्यधर्मीति तावत्युक्ते सपक्षेऽतिप्रसक्तिः । तन्निरासाय सन्दिग्धेति तावत्युक्ते सिषाधयिषायामसत्यामपि पर्वतस्तथा स्यात् । सिषाधयिषाविषयं साध्यमिति बोध्यम्। नन्वत्र सन्दिग्धश्चासौ साध्यश्च स तथा, सन्दिग्धसाध्यो धर्मो यस्य स तथा इति बहुव्रीहिः कर्मधारयगर्भितो भवति उत कर्मधारयो बहुव्रीहिगभितः ? यद्याद्यस्तहि केवलाद् धर्मादनिच् [धर्मादनिच् केवलात् ॥ पा० अष्टा० ५।४।१२४ ॥] इति महाभाष्यसूत्रम्, अथवा द्विपदाद् धर्मादन्निति [सि० है० श० ७।३।१४१] हेमसूत्रम्, एतत्सूत्रद्वयेनात्र समासान्तो न संभवति । द्वितीयपक्षे तु सन्दिग्धत्वं पक्षस्यैव भवति । कथम् ? साध्यो धर्मो यस्यासौ साध्यधर्मा । सन्दिग्धश्चासौ साध्यधर्मा चेति । मैवं, सविशेषणे विधिनिषेधौ विशेषणमुपसङ्क्रामतो विशेष्ये बाधके सतीति न्यायात् विशेषणस्यैव सन्दिग्धत्वं, न तु पक्षस्य विशेषस्य, तेन बहुव्रीहिगभितकर्मधारयः कार्यः। एवं सपक्षेऽपि ज्ञेयमिति ॥
हेत्वाभासानाह - [न च सत्त्वक्षणिकत्वयोाप्तिग्राहकं प्रमाणमस्ति । सोपाधिकतया व्याप्यत्वासिद्धौ उच्यमानायां क्षणिकत्वमन्यप्रयुक्तमित्यभ्युपगतं स्यात् । सोपाधिकतयेति ।] ननु सत्त्वहेतोयाप्तिग्राहकप्रमाणाभावाद् व्याप्यत्वासिद्धतेत्युक्तम् । उपाधिसद्भावाद् व्याप्यत्वासिद्धता किमिति नोच्यते? तत्राह - सोपाधिकतयेति । यथाऽधर्मत्वं हिंसात्वप्रयुक्तं न भवति किन्तु निषिद्धत्वप्रयुक्तं, तद्वत् क्षणिकत्वं सत्त्वप्रयुक्तं न भवति किन्तु परब्रह्मप्रयुक्तमित्युच्यमाने ब्रह्महननादावधर्मत्वमिव क्वचित् क्षणिकत्वमभ्युपगतं स्यात् । तच्चानिष्टम् । क्षणमात्रावस्थायित्वं निर्हेतुको विनाशः क्षणिकत्वमिति सौगतमतानुसारिभिः कक्षीकृतत्वात् । तस्मादेतादृशं क्षणिकत्वं क्वापि न दृष्टमिति सत्त्वक्षणिकत्वयोर्व्याप्तिग्राहकप्रमाणभावादेव सत्त्वहेतोप्प्यात्वासिद्धमित्यर्थः ।।