________________
Vol. XX, 1996
तर्कभाषावार्तिकम्
169
[साधकबाधकप्रमाणाभावेन संशयस्य न्यायप्राप्तत्वात् ।] साधकेति । साधकत्वं हि वस्तुनः सत्त्वं प्रत्यायति, बाधकमसत्त्वं च । तदुभयाभावात् सन्देहो न्याय्यः ॥
[तच्चानुमानं द्विविधम् । स्वार्थ परार्थं चेति । स्वार्थं स्वप्रतिपत्तिहेतः ।] स्वार्थमिति । स्वस्थानमेयप्रतिपत्तिलक्षणं प्रयोजनं यस्माद् भवति तत् स्वार्थम् । [तथा हि स्वयमेव महानसादौ विशिष्टेन प्रत्यक्षेण धूमाग्न्योाप्ति गृहीत्वा....] विशिष्टेनेति । उपाध्यभावभूयोदर्शनजनितसंस्कारसनाथेनेत्यर्थः । [पर्वतसमीपं गतस्तद्गते चाग्नौ सन्दिहानः पर्वतवर्तिनीमविच्छिन्नमूलाम_लिहां धूमलेखां पश्यन्...] अविच्छिन्नेति । शमितवन्यादौ व्यभिचारवारणायाविच्छिन्नमूलामिति । गोपालघटिकाधूमादौ व्यभिचारनिरासार्थम् 'अभ्रंलिहाम्' इति ॥
[तथा हि यत्र यत्र धूमवत्त्वं तत्राग्निमत्त्वं, यथा महानसे इत्यन्वयव्याप्तिः ।] अन्वयव्याप्तिरिति । भावपुरस्सरा साधनपुरस्सरा व्याप्तिरन्वयव्याप्तिरिति । एवं यत्राग्निर्नास्ति तत्र धूमोऽपि नास्ति, यथा महादे' इतीयं व्यतिरेकव्याप्तिः । व्यतिरेकव्याप्तिरिति । व्याप्तिद्वैविध्यमुक्तम् । व्यतिरेकव्याप्तेश्यं क्रम इति ।
व्याप्यव्यापकभावो हि भावयोर्यादगिष्यते । तयोरभावयोस्तस्माद्विपरीतः प्रतीयते ॥१॥ अन्वये साधनं व्याप्यं, साध्यं व्यापकमिष्यते । साध्याभावोऽन्यथाव्याप्यो व्यापकः साधनात्ययः ॥२॥ व्यापकं तदतन्निष्ठं व्याप्यं तन्निष्ठमेव च । व्याप्यं गमकमादिष्टं व्यापकं गम्यमिष्यते ॥३॥ व्याप्यस्य वचनं पर्वं व्यापकस्य ततः परम् ।
एवं परीक्षिता व्याप्तिः स्फुरीभवति तत्त्वतः ॥४॥ ननु हेतुत्रैविध्यमाह । केवलान्वयी, विपक्षाभाववान् । केवलव्यतिरेकी, सपक्षाभाववान् । अन्वयव्यतिरेकी च सपक्षविपक्षभाववान् । तत्र केवलव्यतिरेकी यथा 'जीवत् शरीरं सात्मकं, प्राणादिमत्वाद्' इत्यत्र 'शरीरं सात्मकम्' इत्युक्ते मृतशरीरे बाधः । तद्वारणाय 'जीवद्' इति तावद्युक्ते जीवात्मनि बाधः । तद्वारणायोद्देशसिद्धये च 'शरीरम्' इति शरीरावयवेऽपि पक्ष एव, अन्यथा हेतुसाध्यनिश्चयदशायामन्वयित्वं स्यात् सपक्षे सत्त्वादिति । 'प्राणादि' इत्यत्रादिशब्देनात्र प्राणापाननिमेषोन्मेषजीवनमनागतीन्द्रियान्तर्विकाराः सुखदुःखेच्छाद्वेषप्रयत्नश्चात्मनो लिङ्गानि प्रयोगप्रकारं दर्शयति । 'तथा' इत्यादिना देहातिरिक्तमात्मानमनङ्गीकुर्वाणं चार्वाकवराकं प्रति देहातिरिक्त आत्मा साध्यते । शरीरमात्रपक्षीकरणे मृतशरीरे भागासिद्धिः । अत उक्तम्'जीवद्' इति ॥
ननु धूमानुमाने महानसवन्निश्चितसाध्यो नास्ति, सर्वस्य जीवच्छरीरस्य पक्षकुक्षिनिक्षिप्तत्वात् । दृष्टान्ते धर्मिणि दृष्टो धर्मस्तव्याप्तेन हेतुना पक्षे विधीयते, विपक्षे वा साध्यनिवृत्त्या साधननिवृत्तिः । अत्र तु सात्मकत्वं प्राणादिमत्त्वव्यापकत्वेन क्वापि न दृष्टम, अतः कथं जीवच्छरीरे प्राणादिमत्त्वेन सात्मकत्वसिद्धिः ? कथं च घयदिषु सात्मकत्वनिवृत्त्या प्राणादिमत्त्वनिवृत्तिः ? इति चेद्, उच्यते - लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं सद् दृष्टान्त इति पयदिषु नैरात्म्यं, प्राणादिमत्त्वं चेत्यस्मिन्नर्थे सर्वसम्प्रतिपत्तिरस्ति । अतः कथंकार नायं दृष्टान्तः ?