________________
168
नारायण म. कंसारा
SAMBODHI
इत्यत्राव्याप्तेः । कथम् ? इति चेत्, तत्र साध्यात्यन्ताभावाप्रसिद्धेः । अत एवान्योन्याभावगर्भमपि न घटभिधेययोरन्योन्याभावाभावात् तद्गर्भ लक्षणं न भवति । स्वसमानाधिकरणात्यन्ताभावाप्रतियोगिसामानाधिकरण्यं व्याप्तिरिति चेन्न, 'इदं संयोगि द्रव्यत्वाद्' इत्यत्राव्याप्तेः । संयोगित्वं नियतत्वं न । केचिद् रगरगायमानाः परमाणवो संयोगिन एव वर्तन्ते । तेषां कदापि संयोगो न भविष्यतीत्यव्याप्तिरिति ॥
[प्रयोजकश्योपाधिः इत्युच्यते ।] प्रयोजकश्चेति । ननु शाकाद्याहारपरिणामभेदस्योपाधित्वं वक्तुमुपक्रम्य प्रयोजनप्रतिपादनमयुक्तमित्याशक्य संज्ञाभेदो न संज्ञिभेद इत्याह- प्रयोजकः । उक्तं च व्याप्तेश्च दृश्यमानायाः कश्चिद् धर्मः प्रयोजकः 'अस्मिन् सत्यमुना भाव्यम्' इति शक्त्या निरूप्यते १ समासमा(व)विनाभावादेकत्र स्तो यदा तदा समेन यदि नो व्याप्तस्तयो_नः प्रयोजक: २ आभ्यामुपाधिः प्रयोजक उक्तः । उपाधेर्लक्षणं यथा साधनाव्यापकत्वे सति साध्यसमव्याप्तिरुपाधिरित्युक्ते अनित्यः शब्दः कृतकत्वात् घटवत्, तत्र सकर्तृकत्वमुपाधिः । यत्र यत्रानित्यत्वं तत्र सकर्तृत्वमेव । तन्निरासाय साधनाव्यापक इति । तथोक्ते घटत्वमुपाधिः, शब्दे कृतकत्वसत्त्वे घटत्वाभावात् । अत उक्तं - साध्याव्याप्तिः । तावत्युक्ते अश्रावणत्वमुपाधिः। कथम् ? शब्दे श्रावणत्वं नास्ति । यत्रानित्यत्वं तत्राश्रावणत्वमस्ति । तस्मादुक्तलक्षणासद्भावात् तस्योपाधित्वनिवृत्त्यर्थं समग्रहणम् । यथा जपाकुसुमं स्वसंनिहितस्फटिके रक्तिमानं जनयति तथोपाधिरपि स्वसंस्पृष्टे साधनत्वाभिमते वस्तुनि स्वनिष्ठां व्याप्तिमासञ्जयतीत्यतः स्वस्मिन्निव स्वसंसर्गिणि स्वधर्मासञ्जक उपाधिरिति ॥ स च द्वेधा - निश्चितः, शङ्कितश्च । तत्र निश्चितोपाधिर्यथा - अग्नेधुमसम्बन्धे आर्दैन्धनसंयोगः ।
सर्वव्याख्याविकल्पानां द्वयमिष्टं प्रयोजनम् ।
पूर्वत्रापरितोषो वा विषयव्याप्तिरेव च ॥१॥ इति सत्त्वाद् विषयव्याप्तावुदाहरति अपरनिश्चितो यथा - हिंसात्वस्याधर्मत्वमुपाधिः । ननु यत्र श्यामत्वं तत्र शाकाद्याहारपरिणतिभेद इति सङ्गच्छते, श्यामत्वेऽपि नीलोत्पलादावुक्तोपाधेरसम्भवादिति चेत्, तदसमञ्जसं, यतः श्यामत्वं मनुष्यधर्म इति केचिदूचिरे । पुरुषस्य श्यामत्वमिति साध्यविशेषितत्वं परे मेनिरे । उक्तोपाधेमैत्रीतनयत्वं प्रत्यव्यापकत्वानिश्चयात् । शङ्कितत्वमुक्तं शङ्कितोपाधे: तौ तानि तैः ।
यावच्चाव्यतिरेकित्वं शतांशेनापि शक्यते ।
विपक्षस्य कुतस्तावद्धतोर्गमनिकाबलम् ॥१॥ अनुपलम्भ उपाध्यभावस्तेन सनाथेन युक्तेनेत्यर्थः । अथोपाधिस्त्रिविधः । पक्षधर्मावच्छिन्नसाध्यव्यापक: ११ साधनावच्छिन्नसाध्यव्यापक: २। शुद्धसाध्यव्यापकश्च ३। तत्राद्यो - 'गर्भस्थो मैत्रीतनयः श्यामो, मैत्रीतनयत्वाद' इत्यत्र शाक जत्वमिति । द्वितीयो यथा-'वायु: प्रत्यक्षः, प्रत्यक्षस्पा श्रयत्वाद्' इत्यत्रोद्भुतरूपत्वलक्षणोपाधिरस्यार्थः प्रत्यक्षस्याश्रयित्वं साधनं तेनावच्छिन्नं साध्यं प्रत्यक्षत्वं, तस्य व्यापकत्वमुद्भूतरूपत्वमिति २। तृतीयो यथा - 'पर्वतो धूमवान्, वहे:' इत्यत्राट्टैन्धनसंयोगलक्षणोपाधिरिति । तत्र तृतीयोपाधौ साध्यव्यापकत्वे सतीत्यादिलक्षणसत्त्वेऽपि आद्यद्वितीययोर्लक्षणं न याति, तयोः शाकपाकजत्वोद्भतरूपकत्वलक्षणोपाध्योः श्यामत्वप्रत्यक्षत्वव्यापकाभावात् । यत्र श्यामत्वं तत्र पाकजत्वमिति व्याप्तौ गृह्यमाणायां काककोकिलादौ व्यभिचारात् तत्राव्याप्तिः । तन्निरासाय भिल्लादिजातिव्यतिरिक्तत्वे सतीति ग्राह्यमिति। यत्र यत्र प्रत्यक्षत्वं तत्रोद्भूतरूपत्वमिति व्याप्तौ गृह्यमाणायामात्मनि व्यभिचारात् तत्राव्याप्तिः । तन्निरासाय प्रत्यक्षस्पर्शाश्रयित्वे सतीति ग्राह्यमिति ॥