________________
शुभविजयकृतं ॥ तर्कभाषावार्तिकम् ॥
संपा. नारायण म. कंसारा [Contd. from Sambodhi Vol. XIX. Dec. 1995]
__ [॥ अनुमानम् ॥] अथानमानप्रमाणं लक्षयति-'लिङपरामर्शो ऽनुमानम्' इति । परामर्शस्तृतीयं ज्ञानमिति परामर्शोऽनुमानमित्युक्ते हानोपादानादिप्रत्यक्षेऽतिप्रसक्तिः । तत् कथमिति चेत्, निर्विकल्पकसविकल्पकाभ्यामस्य प्रत्यक्षस्य तृतीयत्वात् । तन्निरासाय लिङ्गेति तावत्युक्तेऽज्ञातधूमेऽतिव्याप्तिः । तन्निरासाय परामर्शेति करणत्वादिति करणप्रमाणवादिनो नैयायिकाः, फलप्रमाणवादिनो मीमांसका इति ॥
[किं पुनर्लिङम ? कश्च तस्य परामर्शः ? उच्यते व्याप्तिबलेनार्थगमकं लिङ्गम् ।] किं पुनर्लिङ्गमिति। लीनमर्थं गमयतीति लिङ्गम् । व्याप्तिविशिष्ट पक्षधर्मत्वं लिङ्गत्वमित्युक्ते एकैकमात्रज्ञानजन्ये लिङ्गपरामर्शादावतिप्रसक्तिः । कथम् ? तत्र लिङ्गबुद्ध्या ग्रहणाभावात् । तन्निरासाय व्याप्तीति तावत्युक्ते समूहालम्बनजन्यलिङ्गपरामर्शादावतिप्रसक्तिः । कथम् ? 'अत्र वह्निधूमौ स्तः' इत्यत्र समूहालम्बनजन्यज्ञानत्वं, न तु लिङ्गबुद्ध्या ग्रहणम् । तन्निरासाय विशिष्टेति ॥
ननु कथमेतस्य कारणत्वम् ? व्यापाराभावात् । न च संस्कारो व्यापारः । संस्कारजन्यत्वेनानुमिति: स्मृतिव्यापारमात्रजतर्को व्यापारो, 'वहिव्याप्य: धूमवानयम्' इत्यादिलिङ्गपरामर्शजन्यत्वे मानाभावात् । अत एव निर्विकल्पकं धारावहनं वा न व्यापारः । न च निर्विकल्पकं व्यापारि, अभावादिहेतौ 'तदहम्' तदभावात् । मैवम्। व्याप्तिविशिष्टपक्षधर्मत्वाभिधाने लिङ्गशब्दस्यैकदेशलक्षणया व्याप्याभिधायित्वाद् व्याप्तिज्ञानमनुमानमित्यर्थः । तस्य लिङ्गपरामर्शो द्वारम् । अतो न कापि क्षतिः । निर्व्यापारकरणत्ववादिमते लिङ्गपरामर्शः करणं, बलभद्रमते व्याप्तिज्ञानं करणं, लिङ्गपरामर्शोऽवान्तर इति ॥
ननु लिङ्गपरामर्शः पक्षविशेष्यको वा पक्षविशेषणको वा ? उच्यते । उभयथा न दोषः, 'पर्वतो धूमवान्' इति विशेष्यकः, 'पर्वते धूमः' इति विशेषणकः, सप्तम्यन्तं विशेषणमिति न्यायात् । तथा च 'पर्वतोऽयं वह्निमान्, धूमवत्त्वाद्' इत्यत्र यदा धर्मी साध्यते तदा धर्मी हेतुः प्रयुज्यते, यदा धर्मः साध्यते तदा हेतावपि धर्मः प्रयुज्यते, यथा 'यत्र यत्र धूमवत्त्वं तत्र वह्निमत्त्वम्,' 'यत्र यत्र धूमस्तत्र वह्नि': इति । तथा पञ्चम्यन्तस्तृतीयान्तो वा हेतुः, यथा 'पर्वतोऽयमग्निमान् धूमवत्त्वात्' । धूमात् धूमवत्त्वेन धूमेन वा हेतौ धर्मत्रयम् । यथा धूमवत्त्वं व्याप्तिमत्त्वं साध्यसमानाधिकरण्यं वेति व्याप्तिप्रयोगस्याद्यत्वाद्यवयवयत् शब्दस्य द्वित्वं भवति न तु तत् शब्दस्य, यथा 'यत्र यत्र धूमवत्त्वं तत्र वह्निमत्त्वम्' इति । यदुक्तं चिन्तामणिप्रगल्भीवृत्तौ 'यद् यत् पापं प्रतिजहीहि जगदेतन्नाथ नम्रस्य तन्मे' इति ।।
व्याप्तिबलेनेति व्याप्तिस्मरणेनार्थबोधकमित्यर्थः । साध्यसामानाधिकरण्यं व्याप्तिरिति [ साहचर्यनियमो व्याप्तिः ।] साहचर्येति । साहचर्यमानं व्याप्तिर्न भवति, किन्त्वनौपाधिकः सम्बन्धो व्याप्तिरिति सूचयितुं नियमग्रहणम् । ननु नियतत्वं नाम साध्यात्यन्ताभाववत्तित्वं नियतत्वमिति चेन्न, 'घोऽभिधेयः प्रमेयत्वाद'