________________
174
नारायण म. कंसारा
SAMBODHI
पूर्वपूर्वेति । एतच्चोपलक्षणम् । पूर्वपूर्ववृत्तिजातिविषयकसंस्कारसहकृतेनेत्यपि बोध्यम् । तेन च तज्ज्ञानजातिज्ञानाभावात् कथं तत्प्रकारकं ज्ञानमित्यपास्तम् । एतेन चरमवर्णज्ञानकाले कथं प्रथमादिवर्णज्ञानं, प्रत्यासत्यभावात न चातीतस्य वर्णस्य श्रोत्रसमवायोऽस्त्येवेति वा, समवायांशरूपप्रत्यासत्त्या हि प्रथमादिवर्णज्ञानं लौकिकमेव स्यान्न त्वलौकिकमयोग्यत्वात, तदपि न सम्भवति, विषयाभावादिति दूषणं परास्तं, पदस्थसंस्कारस्यैव प्रत्यासत्तित्वात् । न च तर्हि पदज्ञानसंस्कारजन्यत्वेन स्मृतित्त्वापत्तिरिति वाच्यं, संस्कारत्वेन तज्जन्यत्वस्य स्मृतित्वप्रयोजकत्वात् । अन्यथा प्रत्यभिज्ञायां स्मृतित्वापत्तेः इह च प्रत्यासत्तित्वेन संस्कारजन्यत्वमिति न स्मृतित्वापत्तिः । एतेन चरमवर्णसन्निकर्षाभावात् कथं तदवगाहिनी पदप्रतीति[रिति]शङ्का निरस्ता । पदेति 'विभक्त्यन्तं पदम्' [-स्त्यादिविभक्तिः । तदन्तं पदम् (सि. है. शं. १।१।१९-२०)] । पदसङ्केतग्रहणानुगृहीतेनेत्यर्थः। एकदेत्येकामेवेत्यर्थः । तेन समूहलक्षणं सुस्थमित्याशयः ॥
ननु यदि असवर्णविशेष्यमपि ज्ञानं श्रोत्रेण जन्यते तदाऽनागताशेषवर्णविषयकमपि ज्ञानं जन्येतेत्यत आह - सहकारीति । तत्र संस्काराभावात् तत्र सहकारीत्याशयः । इयत्प्रकारप्रबन्धेन पदप्रतीति व्युत्पाद्य वाक्यप्रतीति व्युत्पादयति - [तदिदं वाक्यमाप्तपुरुषेण प्रयुक्तं सच्छब्दनामकं प्रमाणम् ।] तदिदमिति । तदयं शब्द इत्यर्थः ॥
प्रत्यभिज्ञेति । ननु इन्द्रियस्य संनिहितमात्रविषयत्वात् संस्कारस्य च पूर्वानुभवमात्रविषयत्वात् तत्तदन्तोभयविषय- ज्ञानजनने तयोः सामर्थ्याभावात् ग्रहणस्मरणात्मके द्वे इमे ज्ञाने चेन्न, सोऽयं देवदत्त इति ज्ञाने पूर्वापरकालावच्छिन्नमेकं वस्तुतत्त्वं तावच्चकास्ति, न च तस्य विषयो न भवतीति समस्ति सर्वजनीनानुभावविरोधात्, ग्रहणस्मरणे च नैकं विषयमवगाहते । तस्मादेकमेवेदं ज्ञानमिति चक्षुरादिप्रत्यक्षानुमानोपमानागमप्रमाणजन्यमनुभवज्ञानं, तज्जन्यः संस्कारः, तज्जन्या स्मृतिः, तज्जन्यं प्रत्यभिज्ञानम् । एतदुदाहरणानि यथा - 'घटोऽयम्' इति इदन्ता विशेषणेनानुभवत्वज्ञानं १ 'स घटः' इति तत्ताविशेषणेन स्मृतित्वज्ञानं २ 'सोऽयं घटा' तत्ता-इदन्ता विशेषणेन प्रत्यभिज्ञानम् ३ इति ॥
ननु चतुर्णा प्रमाणानां कानि करणानीत्यत्र ब्रूमः । प्रत्यक्षम् । अक्षमिन्द्रियम् । इन्द्रियं प्रतिगतम् । इन्द्रियाधीनतया यदुत्पद्यते तत् प्रत्यक्षमिति तत्पुरुषः । नन्वक्षिशब्दादपि प्रतिपूर्वात् 'प्रतिसमनुभ्योऽक्षः' इति सूत्रेणाव्ययीभावसमासान्ते टचि प्रत्यक्षमिति सिध्यति [इति,] उच्यते । एवमपि 'प्रत्यक्षो बोधः', 'प्रत्यक्षा बुद्धिः' इत्यत्र पौत्रं स्त्रीणं च न प्राप्नोति । न ह्यत्र मत्वर्थीयोऽर्थो घटते, प्रत्यक्षस्वरूपस्यैव वेदनस्य बोधबुद्धिशब्दाभ्यामभिधानाद् इति । प्रत्यक्षं प्रमाणं सप्तप्रकारं, पञ्च बुद्धीन्द्रियाणि चक्षुरादीनि षष्ठं मनः, सप्तममीश्वरप्रत्यक्षम् । ईश्वरस्येन्द्रियं नास्ति । ईश्वरः साक्षात् पश्यतीति । षड्विधं लौकिकं, सप्तममलौकिकं च । तत्र प्रत्यक्षप्रमाणे चक्षुरादिः करणम् । सन्निकर्षोऽवान्तरव्यापारः । घटदिज्ञानं प्रत्यक्षप्रमा फलमिति । व्याप्तिज्ञानं करणम् । लिङ्गपरामर्शो द्वारम् । अनुमितिः फलमिति । केचिल्लिङ्गं करणं, परामर्शो द्वारम्, अनुमितिः फलमिति १। अन्येऽनिर्व्यापारः स्वपरामर्श एव करणम्, अनुमितिः फलमित्यपरे इति २। उपमानप्रमाणे 'यथा गौस्तथा गवयः' इति वाक्यज्ञानं करणम् । 'गोसादृश्यो गवयः' इति वाक्यार्थस्मरणमवान्तरव्यापारः । गवयपिण्डज्ञानमुपमितिप्रमाणफलमिति ३। 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्याद्याप्तवाक्यं करणं, पद्समुदायसङ्केतग्रहोऽवान्तरव्यापारः, वाक्यार्थज्ञानं शाब्दीप्रमा फलमिति ४। चतुर्यु प्रमाणेषु चत्वारिकरणानि चत्वारोऽवान्तव्यापाराश्चतस्रः प्रमाश्चेति । प्रत्यक्षप्रमाणे त्वयं विशेषः । चक्षुरादीनि षट् करणानि, . षडवान्तरव्यापाराः षट्प्रमाश्चेत्यष्टादशप्रकारा भवन्तीति ।।
.
जान