________________
सभाष्यतत्वार्थाधिगमसूत्रेषु
५६ लब्धिप्रत्ययं च ॥ ४८ ॥ लब्धिप्रत्ययं च वैक्रियशरीरं भवति । तिर्यग्योनीनां मनुष्याणां चेति ॥४८॥ शुभं विशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधरस्यैव ॥४९॥
शुभमिति शुभद्रव्योपचितं शुभपरिणामं चेत्यर्थः । विशुद्धमिति विशुद्धद्रव्योपचितमसावधं चेत्यर्थः । अव्याघातीति आहारकं शरीरं न व्याहन्ति न व्याहन्यते चेत्यर्थः । तच्चतुर्दशपूर्वधर एव कस्मिंश्चिदर्थे कृच्छ्रेऽत्यन्तसूक्ष्मे सन्देहमापन्नो निश्चयाधिगमार्थे क्षेत्रान्तरितस्य भगवतोऽर्हतः पादमूलमौदारिकेण शरीरेणाशक्यगमनं मत्वा लब्धिप्रत्ययमेवोत्पादयति दृष्ट्वा भगवन्तं छिन्नसंशयः पुनरागत्य व्युत्सृजत्यन्तर्मुहूर्तस्य तैजसमपि शरीरं लब्धिप्रत्ययं भवति ॥
कार्मणमेषां निबन्धमाश्रयो भवति तत्कर्मत एव भवतीति बन्धे परस्तावक्ष्यात । कर्म हि कार्मणस्य कारणमन्येषां च शरीराणामादित्यप्रकाशवत् । यथादित्यः स्वमात्मानं प्रकाशयत्यन्यानि च द्रव्याणि न चास्यान्यः प्रकाशकः । एवं कार्मणमात्मनश्च कारणमन्येषां च शरीराणामिति ।
१ तपोविशेषजनिता लब्धिस्तत्प्रत्ययं तत्कारणमेतच्छरीरं भवति । अजन्मजमिदमित्यर्थः ।
. २ द्वादशाङ्गस्य दृष्टिवादाख्य ( दृष्टिपात ) महासमुद्रस्य पंच पदानि तद्यथापरिकर्म १ सूत्र २ पूर्वानुयोग ३ पूर्वगत ४ चूलिकाः ५ । तत्र पूर्वगताख्यचतुर्थपदे चतुर्दश पूर्वाणि १ उत्पादम् २ अग्रायणीयम् ३ वीर्यप्रवादम् ४ अस्तिनास्तिप्रवादम् ५ ज्ञानप्रवादम् ६ सत्यप्रवादम् ७ आत्मप्रवादम् ८ कर्मप्रवादम् ९ प्रत्याख्यानप्रवादम् १. विद्याप्रवादम् ११ कल्याणम् १२ प्राणावायम् १३ क्रियाविचालम् १४ लोकबिन्दुसारम । तानि धारणाज्ञानेनालम्बते इति चतुर्दशपूर्वधरः ।
३ आरम्भात्प्रभृत्या अपवर्गात् सर्वोऽन्तर्मुहूर्तपरिमाणः कालो भवति । ४ अ. ८ सू. १,२,३.