Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal
View full book text
________________
२००
सभाष्यतत्त्वार्थाधिगमसूत्रेषु ततोऽस्य निस्तृष्णत्वात्तेष्वनभिष्वक्तस्य मोहक्षपकपरिणामावस्थस्याष्टाविंशतिविधं मोहनीयं निरवशेषतः प्रहीयते । ततश्छद्मस्थवीतरागत्वं प्राप्तस्यान्तर्मुहूर्तेन ज्ञानावरणदर्शनावरणान्तरायाण युगपदशेषतः प्रहीयन्ते । ततः संसारवीजबन्धनिर्मुक्तः फलबन्धनमोक्षापेक्षो यथाख्यातसंयतो जिनः केवली सर्वज्ञः सर्वदर्शी शुद्धो बुद्धः कृतकृत्यः स्नातको भवति । ततो वेदनीयनामगोत्रायुष्कक्षयाफलबन्धननिर्मुक्तो निर्दग्धपूर्वोपात्तेन्धनो निरुपादान इवाग्निः पूर्वोपात्तभववियोगाद्धेत्वभावाच्चोत्तरस्याप्रादुर्भावाच्छान्तः संसारसुखमतीत्यात्यन्तिकमैकान्तिकं निरुपम निरतिशयं नित्यं निर्वाणसुखमवामोतीति ॥
एवं तत्त्वपरिज्ञानाद्विरक्तस्यात्मनो भृशम् । . निरास्रवत्वाच्छिन्नायां नवायां कर्मसन्ततौ॥१॥ पूर्वार्जितं क्षपयतो यथोक्तैः क्षयहेतुभिः । संसारबीजं कात्स्न्ये न मोहनीयं प्रहीयते ॥२॥ ततोऽन्तरायज्ञानघ्नदर्शनघ्नान्यनन्तरम्। प्रहीयन्तेऽस्य युगपत् त्रीणि कर्माण्यशेषतः ॥३॥ गर्भसंच्यां विनष्टायां यथा तालो विनश्यति । तथा कर्मक्षयं याति मोहनीये क्षयं गते॥४॥ ततः क्षीणचतुष्कमा प्राप्तोऽथाख्यातसंयमम । बीजबन्धननिमुक्तः स्नातकः परमेश्वरः॥५॥ शेषकर्मफलापेक्षः शुद्धो बुद्धो निरामयः। सर्वज्ञः सर्वदर्शी च जिनो भवति केवली ॥६॥ कृत्स्नकर्मक्षयादृवं निर्वाणमधिगच्छति । यथा दग्धेन्धनो वह्निर्निरुपादानसन्ततिः॥७॥ १ एनमेवार्थ संक्षेपेणोपहरति श्लोकैः ।
२ मस्तकसूच्यां ध्वस्तायां सर्वात्मना विनाशमुपयाति सकलस्तालतरुः । एवं मोहनीये क्षीणे सर्व शेषकर्म क्षयमेति ।

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282