Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal

View full book text
Previous | Next

Page 260
________________ अथ दशमोऽध्यायः। मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ॥१॥ मोहनीये क्षीणे ज्ञानावरणदर्शनावरणान्तरायेषु क्षीणेषु च केवलज्ञानदर्शनमुत्पद्यते । आसां चतसृणां कर्मकृतीनां क्षयः केवलस्य हेतुरिति । तत्क्षयादुत्पद्यत इति हेतौ पञ्चमीनिर्देशः । मोहक्षयादिति पृथक्करणं क्रमप्रसिद्धयर्थ यथा गम्येत पूर्व मोहनीयं कृत्स्नं क्षीयते ततोऽन्तमुहूर्त छद्मस्थवीतरागो भवति । ततोऽस्य ज्ञानदर्शनावरणान्तरायप्रकृतीनां तिसृणां युगपत्क्षयो भवति । ततः केवलमुत्पद्यते ॥१॥ अत्राह । उक्तं मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलमिति । अथ मोहनीयादीनां क्षयः कथं भवतीति । अत्रोच्यते बन्धहेत्वभावनिर्जराभ्याम् ॥ २ ॥ मिथ्यादर्शनादयो बन्धहेतवोऽभिहिताः । तेषामपि तदावरणीयस्य कर्मणः क्षयादभावो भवाति सम्यग्दर्शनादीनां चोत्पत्तिः। 'तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्' 'तन्निसँर्गादधिगमाद्वा' इत्युक्तम् । एवं संवरसंवृतस्य महात्मनः सम्यग्व्यायामस्याभिनवस्य कर्मण उपचयो न भवति पूर्वोपचितस्य च यथोक्तैर्निर्जराहेतुभिरत्यन्तक्षयः । ततः सर्वद्रव्यपर्यायविषयं परमैश्वर्यमनन्तं १ कर्मस्वभावानाम् । २ अ. ८ सू. १. ३ अ. १ सू. २. ४ अ. १ सू. ३.

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282