Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal
View full book text
________________
सभाष्यतत्वार्थाधिगमसूत्रेषु १८६ प्रतिसेवना । पञ्चानां मूलगुणानां रात्रिभोजनविरतिषष्ठानां पराभियोगादलात्कारेणान्यतमं प्रतिसेवमानः पुलाको भवति । मैथुनमित्येके । बकुशो द्विविधः उपकरणबकुशः शरीरवकुशश्च । तत्रोपकरणाभिष्वक्तचित्तो विविधविचित्रमहाधनोपकरणपरिग्रहयुक्तो बहुविशेषोपकरणकांक्षायुक्तो नित्यं तत्पतिसंस्कारसेवी भिक्षुरुपकरणबकुशो भवति । शरीराभिष्वक्तचित्तो विभूषार्थ तत्प्रतिसंस्कारसेवी शरीरबकुशः। प्रतिसेवनाकुशीलो मूलगुणानविराधयन्नुत्तरगुणेषु कांचिद्विराधनां प्रतिसेवते । कषायकुशीलनिर्ग्रन्थस्नातकानां प्रतिसेवना नास्ति ॥
तीर्थम् । सर्वे सर्वेषां तीर्थकराणां तीर्थेषु भवन्ति । एके त्वाचार्या मन्यन्ते पुलाकबकुशप्रतिसेवनाकुशीलास्तीर्थे नित्यं भवन्ति शेषास्तीर्थे वातीर्थे वा ॥
लिङ्गम् । लिङ्ग द्विविधम् । द्रव्यलिङ्ग भावलिङ्ग च । भावलिङ्ग प्रतीत्य सर्वे पञ्च निग्रन्था भावलिङ्गे भवन्ति द्रव्यलिङ्गं प्रतीत्य भाज्याः॥
लेश्याः । पुलाकस्योत्तरास्तिस्रो लेश्या भवन्ति । बकुशपतिसेवनाकुशालयोः सर्वाः षडपि । कषायकुशीलस्य परिहारविशुद्धस्तिस्र उत्तराः । सूक्ष्मसंपरायस्य निर्ग्रन्थस्नातकयोश्च शुक्लैव केवला भवति । अयोगः शैलेशीप्रतिपन्नोऽलेश्यो भवति ॥
१ १ प्राणातिपातः । २ मृषावादः । ३ अदत्तादानम् । ४ मैथुनम् । ५ परिग्रहः इति पञ्च मूलगुणाः षष्ठी च रात्रिभोजनविरतिः ।
२ तरन्त्यनेनेति तीर्थ वचनं प्रथमगणधरो वा ।
३ कदाचिद्गतीर्थेऽपि मरुदेवीप्रभृतयः श्रूयन्ते । मरुदेवी प्रयमतीर्थकरस्य श्रीऋषभदेवस्य माता ।
४ रजोहरणमुखवस्त्रिकादि । ५ ज्ञानदर्शनचारित्राणि । ६ कदाचिद् द्रव्यलिङ्गं न निमित्तं यथा मरुदेव्याम् । ।

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282