Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal

View full book text
Previous | Next

Page 264
________________ सभाष्य सभाष्यतत्त्वार्थाधिगमसूत्रेषु १९० पूर्वप्रयोगादसङ्गत्वाद्वन्धच्छेदात्तथागतिपरिणामाच्च तद्गतिः६ पूर्वप्रयोगात् । यथा हस्तदण्डचक्रसंयुक्तसंयोगात्पुरुषप्रयत्नतश्चाविद्धं कुलालचक्रमुपरतेष्वपि पुरुषप्रयत्नहस्तदण्डचक्रसंयोगेषु पूर्वप्रयोगाद्भमत्येवासंस्कारपरिक्षयात् एवं यः पूर्वमस्य कर्मणा प्रयोगो जनितः स क्षीणेऽपि कर्माण गतिहेतुर्भवति । तत्कृता गतिः। किं चान्यत् ॥ असङ्गत्वात् । पुद्गलानां जीवानां च गतिमत्त्वमुक्तं नान्येषां द्रव्याणाम् । तत्राधो गौरवधर्माणः पुद्गला ऊर्ध्वगौरवधर्माणो जीवाः। एष स्वभावः । अतोऽन्यासङ्गादिजनिता गतिर्भवति । यथा सत्स्वपि प्रयोगादिषु गतिकारणेषु जातिनियमेनाधस्तिर्यगूज़ च स्वाभाविक्यो लोष्टवाय्वग्नीनां गतयो दृष्टाः तथा सङ्गविनिर्मुक्तस्योर्ध्वगौरवादूर्ध्वमेव सिध्यमानगतिर्भवति । संसारिणस्तु ॥ कर्मसङ्गादधास्तिर्यगूर्व च ॥ किं चान्यत् । बन्धच्छेदात् । यथा रज्जुबन्धच्छेदात्पेडाया बीजकोशबन्धनच्छेदाच्चैरण्डबीजानां गतिर्दृष्टा तथा कर्मबन्धनच्छेदात्सिध्यमानगतिः । किं चान्यत् । तथागतिपरिणामाच्च । ऊर्ध्वगौरवात्पूर्वप्रयोगादिभ्यश्च हेतुभ्यः तथास्य गतिपरिणाम उत्पद्यते येन सिध्यमानगतिर्भवति । ऊर्ध्वमेव भवति नाधस्तिर्यग्वा गौरवप्रयोगपरिणामासयोगाभावात् । तद्यथा। १ यथा रज्ज्वा गाढं बद्धायाः कीचकविदलघटितायाः रज्जुबन्धच्छेदादुपरितनपुटस्यागमनमूर्ध्व दृष्टं यथा वा बीजीकोशः फलं फली वा तस्या बन्धनं गाढसंपुटता • तस्याः सवितृकिरणतापशोषितायाः परिणतिकाले संपुटोद्भेदलक्षणश्छेदः । तस्मात् बन्धछेदात् एरंडादिफलभेदे बीजानां गतिः । यथाबीजान्युड्डीय दूरे पतन्ति तथा कर्मबन्धोऽत्रफलादिस्थानीयः । तस्य छेदात्तद्विघटनानन्तरमेवोर्व गच्छत्यालोकान्तात् । पेडाशब्दो वेणीवाचको देशीभाषाप्रसिद्धया ।

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282