Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal

View full book text
Previous | Next

Page 271
________________ १९७ दशमोऽध्यायः सूक्ष्मसम्पराययथाख्यातासिद्धाः संख्येयगुणाः सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः संख्येयगुणाः छेदोपस्थाप्यमूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः संख्येयगुणाः । प्रत्येकबुद्धबोधितः । सर्वस्तोकाः प्रत्येकबुद्धसिद्धाः। बुद्धबोधितसिद्धा नपुंसकाः संख्येयगुणाः । बुद्धबोधितसिद्धाः स्त्रियः संख्येयगुण । बुद्धबोधितासिद्धाः पुमांसः संख्येयगुणा इति । ज्ञानम् । कः केन ज्ञानेन युक्तः सिध्यति । प्रत्युत्पन्नभावप्रज्ञापनीयस्य सर्वः केवली सिध्यति । नास्त्यल्पबहु त्वम् । पूर्वभावप्रज्ञापनीयस्य सर्वस्तोका विज्ञानसिद्धाः चतुर्ज्ञानसिद्धाः संख्येयगुणाः त्रिज्ञानसिद्धाः संख्येयगुणाः । एवं तावदव्यञ्जिते व्यञ्जितेऽपि सर्वस्तोका मतिश्रुतज्ञानसिद्धाः मतिश्रुतावधिमनःपर्यायज्ञानसिद्धाः संख्येयगुणाः मतिश्रुतावधिज्ञानसिद्धाः संख्येयगुणाः॥ अवगाहना । सर्वस्तोका जघन्यावगाहनासिद्धाः उत्कृष्टावगाहनासिद्धास्ततोऽसंख्येयगुणाः यवमध्यसिद्धा असङ्खयेयगुणाः यवमध्योपासिद्धा असङ्खयेयगुणाः यवमध्याधस्तात्सिद्धा विशेषाधिकाः सर्वे विशेषाधिकाः॥ - अन्तरम् । सर्वस्तोका अष्टसमयान्तरसिद्धाः सप्तसमयान्तरसिद्धाः षट्समयानन्तरसिद्धा इत्येवं यावद् द्विसमयान्तरसिद्धा इति सङ्खयेयगुणाः । एवं तावदन्तरेषु सान्तरेष्वपि सर्वस्तोकाः । षण्मासान्तरसिद्धाः एकसमयान्तरसिद्धाः सङ्खोयगुणाः यवमध्यान्तरसिद्धाः सङ्खयेयगुणाः अधस्ताद्यवमध्यान्तरसिद्धा असङ्खयेयगुणाः उपरियवमध्यान्तरसिद्धा विशेषाधिकाः सर्वे विशेषाधिकाः ॥ संख्या सर्वस्तोका अष्टोत्तरशतसिद्धाः विपरीतक्रमात्सप्तोत्तरशतसिद्धादयो यावत्पञ्चाशत् इत्यनन्तगुणाः। एकोनपञ्चाशदादयो यावत्पञ्चविंशतिरित्यसङ्खयेयगुणाः । चतुर्विंशत्यादयो यावदेक इति संख्येयगुणाः । विपरीतहानिर्यथा । सर्वस्तोका अनन्त

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282