Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal

View full book text
Previous | Next

Page 246
________________ सभाष्यतत्त्वार्थाधिगमसूत्रेषु १७१ पञ्चानामेव कर्मप्रकृतीनामुदयादेते परीषहाः प्रादुर्भवन्ति । तद्यथा।ज्ञानावरणवेदनीयदर्शनचारित्रमोहनीयान्तरायाणामिति ॥९॥ सूक्ष्मसंपरायच्छद्मस्थवीतरागयोश्चतुर्दश ॥ १० ॥ सूक्ष्मसंपरायसंयते छद्मस्थवीतरागसंयते च चतुर्दश परीषहा भवन्ति क्षुत्पिपासाशीतोष्णदंशमशकचर्याप्रज्ञाज्ञानालाभशय्यावधरोगतृणस्पर्शमलानि ॥१०॥ एकादश जिने ॥ ११ ॥ एकादश परीषहाः संभवन्ति जिने वेदनीयाश्रयाः । तद्यथा । क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलपरीषहाः॥ ११ ॥ बादरसंपराये सर्वे ॥ १२ ॥ बादरसंपरायसंयते सर्वे द्वाविंशतिरपि परीषहाः संभवन्ति ॥ १२॥ अरतिपरीषहः । ८ स्त्रीपरीषहः । ९ चरणं चर्या ग्रामानुग्रामं विहरणात्मिका सैव परीषहः चयापरीषहः । १० निषेधनं निषेधः पापकर्मणां गमनादिक्रियायाश्च सप्रयोजनमस्या नैषेधिकी-स्मशानादिका स्वाध्यायादिभूमिः, निषद्येति यावत् सैव परीषहो नैषे. घिकीपरीषहः । ११ शय्यापरीषहः । १२ आक्रोशनमाक्रोशः असत्यभाषात्मकः, स एव परीषहः आक्रोशपरीषहः । १३ वधपरीषहः । १४ याञ्चापरीषहः । १५ अलाभपरीषहः १६ रागपरीषहः । १७ तृणस्पर्शपरीषहः । १८ जल्ल (मल ) परीषहः । १९ सत्कारपुरस्कारपरीषहः । २० प्रज्ञापरीषहः । २१ अज्ञानपरीषहः । २२ दर्शनं सम्यग्दर्शनं तदेव क्रियादिवादिना विचित्रमतश्रवणेऽपि सम्यक्परिषह्यमाणं निश्चलचित्ततया धार्यमाणं परीषहो दर्शनपरीषहः । यद्वा-दर्शनशब्दन दर्शनव्यामोहहेतुरैहिकामुष्मिकफलानुपलम्भादिरिह गृह्यते, ततः स एव परीषहो दर्शनपरीषहः । १ सूक्ष्मसम्परायसंयतगुणस्थानस्य लक्षणम्-अतिसूक्ष्मसंज्वलनलोभकषायसत्त्वविषयकत्वम् , गुणश्रेणिसमारोहणे सति दशमगुणस्थानवर्तिरूपत्वं वा सूक्ष्मसम्परायचारित्रस्य लक्षणम् । २ छद्म आवरणं, तत्र स्थिताः छद्मस्थाः सावरणशाना इत्यर्थः । वीतोऽपेतो रागः सकलमोहोपशमात् समस्तमोहक्षयाच्च यस्यासौ वीतरागः क्रमेणैकादशगुणस्थानवर्ती द्वादशस्थानवर्ती च संयतौ ग्राह्यौ । ३ बादराः अकिट्टीकृताः सम्परायाः-सज्वलनकोधादयो यस्मिन् स तथा ।

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282