Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal

View full book text
Previous | Next

Page 255
________________ १८३ नवमोऽध्यायः रणफलत्वात्कर्मनिर्जरकम् । अभिनवकर्मोपचयप्रतिषेधकत्वात्पूर्वोपचितकर्मनिर्जरकत्वाच्च निर्वाणप्रापकमिति ॥ ४६॥ __अत्राह । उक्तं भवता परीषहजयात्तपसोऽनुभावतश्च कर्मनिजरा भवतीति । तत्कि सर्वे सम्यग्दृष्टयः समनिर्जरा आहोस्विदस्ति कश्चित्मतिविशेष इति । अत्रोच्यते । सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपकक्षीणमोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः ॥ ४७ ॥ __ सम्यग्दृष्टिः श्रावकः विरतः अनन्तानुबन्धिवियोजकः दर्शनमोहक्षपकः मोहोपर्शमकः उपशान्तमोहः मोहलपकः क्षीणमोहः जिन इत्येते दश क्रमशोऽसङ्खयेयगुणनिर्जरा भवन्ति । तद्यथा । सम्यग्दृष्टेः श्रावकोऽसङ्खयेयगुणनिर्जरः श्रावकाद्विरतः विरतादनन्तानुबन्धिवियोजक इत्येवं शेषाः ॥ ४७ ॥ १ सम्यग्दृष्टिभाक् । २ आचार्यप्रभृतीन् पर्युपासीनः प्रवचनसारं श्रृणोतीति श्रावकः । श्रृण्वश्च सकलचरणकरणाक्षमो गृहस्थयोग्यमनुगुणशिक्षाव्रतलक्षणधर्ममनुतिष्ठति यथाशक्ति वा । द्वादशप्रकारस्य धर्मस्यैकदेशानुष्ठाय्यपि श्रावक एव । ३ साधुधर्मानुष्ठायी सर्वस्मात्प्राणातिपाताद्यावजीवं विरतः । ४ अनन्तः संसारस्तदनुबन्धिनोऽनन्ताः क्रोधादयः । तान् वियोजयत्युपशमयति । ५ दर्शनमोहोऽनन्तानुबन्धिनश्चत्वारः सम्याग्मथ्यात्वतदुभयानि च । अस्य सप्तविधस्य दर्शनमोहस्य क्षपकः। ६ तथास्यैवोपशमकः। ७ मोहोऽष्टाविंशतिभेदः षोडश कषायाः सम्यक्त्वमिथ्यात्वसम्यग्मिथ्यात्वहास्यरत्यरतिभयशोकजुगुप्सास्त्रीपुंनपुंसकवेदाश्च । अस्योपशमनादुपशान्तमोहः । ८ अस्यैव सकलस्य क्षपणात् । ९ क्षपितनिरवशेषमोहः ।। १. चतुर्विधघातिकर्मजयनात् ।

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282