Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal
View full book text
________________
समाष्यतत्त्वार्थाधिगमसूत्रेषु १७८ मानाम् भवति । परिहारो मासिकादिः । उपस्थापनं पुनर्दीक्षणं पुनश्चरणं पुनर्वतारोपणमित्यनन्तरम् । तदेतन्नवविधं प्रायश्चित्तं देशं कालं शक्तिं संहननं संयमविराधनां च कायेन्द्रियजातिगुणोत्कर्षकृतां च प्राप्य विशुद्धयर्थं यथार्ह दीयते चाचर्यते च । चिती संज्ञानविशुद्धयोर्धातुः तस्य चित्तमिति भवति निष्ठान्तमौणादिकं च ॥ ____ एवमेभिरालोचनादिभिः कृच्छ्रेस्तपोविशेषैर्जनिताप्रमादः तं व्यतिक्रमं प्रायश्चेतयति चेतयंश्च न पुनराचरतीति । ततः प्रायश्चित्तम् । अपराधो वा प्रायस्तेन विशुध्यत इति । अतश्च प्रायश्चित्तमिति ॥२२॥
ज्ञानदर्शनचारित्रोपचाराः ॥ २३ ॥ विनयश्चतुर्भेदः । तद्यथा । ज्ञानविनयः दर्शनविनयः चारित्रविनयः उपचारविनयः । तत्र ज्ञानविनयः पञ्चविधः मतिज्ञानादिः । दर्शनविनयः एकविध एव सम्यग्दर्शनविनयः । चारित्रविनय पञ्चविधः सामायिकविनयादिः । औपचारिकविनयोऽनेकविधः सम्यग्दर्शनज्ञानचारित्राधिगुणाधिकेष्वभ्युत्थानासनप्रदानवन्दनानुगमादिः विनीयते तेन तस्मिन्वा विनयः ॥ २३॥
__ आचार्योपाध्यायतपस्विशैक्षकग्लानगणकुलसङसाधुसमनोज्ञानाम् ॥ २४ ॥
वैयावृत्त्यं दशविधं । तद्यथा । आचार्यवैयावृत्त्यं उपध्यायवैयावृत्त्यं तपस्विवैयावृत्त्यं शैक्षकवैयावृत्त्यं ग्लानवैयावृत्त्यं कुलवैयावृत्त्यं गणवैयावृत्त्यं संघवैयावृत्त्यं साधुवैयावृत्त्यं समनोज्ञवैयावृत्त्य. मिति । व्यावृत्तभावो वैयावृत्त्यं व्यावृत्तकर्म च । तत्राचार्यः पूर्वोक्तः पञ्चविधः । आचारगोचरविनयं स्वाध्यायं वाचार्यादनु तस्मादुपाधीयत इत्युपाध्यायः । संग्रहोपग्रहानुग्रहार्थ चोपाधीयते संग्रहादीन् । वास्योपाधीत इत्युपाध्यायः । द्विसंग्रहो निम्रन्थ आचार्योपाध्यायसं
१ अ. ९ सू. ६.

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282