Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal

View full book text
Previous | Next

Page 248
________________ संभाष्यतत्वार्थाधिगमसूत्रेषु १७६ अनशनावमौदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशा बाह्यं तपः ॥ १९ ॥ अनशनं अवमौदर्यवृत्तिपरिसङ्ख्यानं रसपरित्यागः विविक्तशय्यासनता कायक्लेश इत्येतत्षड्विधं बाह्यं तपः सम्यग्योगनिग्रहो गुप्तिरित्यतः प्रभृति सम्यगित्यनुवर्तते । संयमरक्षणार्थ कर्मनिर्जरार्थ च चतुर्थषष्ठोष्टमादि सम्यगनशनं तपः ॥ अवमौदर्यम् अवममित्यूननाम । अवममुदरमस्य अवमोदरः अवमोदरस्य भावः अवमौदर्यम् । उत्कृष्टावकृष्टौ वर्जयित्वा मध्यमेन कवलेन त्रिविधमवमौदर्यं भवति । तद्यथा । अल्पाहारावमौदर्यमुपार्धावमौदर्य प्रमाणप्राप्तात्किंचिदूनावमौदर्यमिति कवलपरिसङ्ख्यानं च प्रारद्वात्रिंशद्भयः कवलेभ्यः॥ ___ वृत्तिपरिसङ्ख्यानमनेकविधम् । तद्यथा । उत्क्षिप्तान्तप्रान्तचर्यादीनां सक्तुकुल्माषौदनादीनां चान्यतममभिगृह्यावशेषस्य प्रत्याख्यानम् ॥ रसपरित्यागोऽनेकविधः। तद्यथा । मद्यमांसमधुनवनीतादीनां रसविकृतीनां प्रत्याख्यानविरसरूक्षाद्यभिग्रहश्च ॥ विविक्तशय्यासनता नाम एकान्तेऽनाबाधेऽसंसक्ते स्त्रीपशुषण्डकविवर्जिते शून्यागारदेवकुलसभापर्वतगुहादीनामन्यतमे समाध्यर्थ संलीनता ॥ कायक्लेशोऽनेकविधः। तद्यथा । स्थानवीरासनोत्कंडुकासनकपार्श्वदण्डायतशयनातापनाप्रावृतादीनि सम्यक्पयुक्तानि बाह्यं तपः। अस्मात्पडिधादपि बाह्यात्तपसः सङ्गत्यागशरीरलाघवेन्द्रियविजयसंयमरक्षणकर्मानर्जरा भवन्ति ॥ १९॥ १ जानुप्रमाणासनसंनिविष्टस्याधस्तात् समाकृष्यते च तदासनं निवेष्टा च तदवस्थ एवास्ते । २ विनासनेन भूमौ प्राप्तस्फिग्द्वयस्य भवति ।

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282