Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal

View full book text
Previous | Next

Page 167
________________ पञ्चमोऽध्यायः। इति ॥ बन्धस्त्रिविधः । प्रयोगबन्धो वित्रसाबन्धो मिश्र इति । स्निग्धरूक्षत्वाद्भवतीति वक्ष्यते ॥ सौम्यं द्विविधमन्त्यमापेक्षिक च । अन्त्यं परमाणुष्वेव । आपेक्षिकं व्यगुकादिषु संघातपरिणामापेक्ष भवति । तद्यथा-आमलकाद्धदरमिति ॥ स्थौल्यमपि द्विविधमन्त्यमापेक्षिकं च संघातपरिणामापेक्षमेव भवति । तत्रान्त्यं सर्वलोकव्यापिनि महास्कन्धे भवति । आपेक्षिकं बदरादिभ्य आमलकादि विति ॥ संस्थानमनेकविधम् । दीर्घहस्वाद्यनित्थंत्वपर्यन्तम् । भेदः पञ्चविधः । औत्कारिकः चौर्णिकः खण्डः प्रतर अनुतंट इति ।। तमश्छायातपोद्योताश्च परिणामजाः ॥ सर्व एवैते स्पर्शादयः पुद्गलेवेव भवन्तीति । अतः पुद्गलास्तद्वन्तः ॥ १ प्रयोगो जीवव्यापारः । तेन घटितो बन्धः प्रायोगिकः औदारिकादिशरीरजतुकाष्ठादिविषयः । २ विस्रसा स्वभावः प्रयोगनिरपेक्षो विस्रसाबन्धः । स द्विधा आदिमदनादिमद्भेदात् । तत्र आदिमान विद्युदादिर्विषमगुणविशेषपरिणतपरमाणुप्रभवः स्कन्धपरिणामः । अनादिरपि धर्माधर्माकाशविषयः । ___३ प्रयोगविस्रसाभ्यां जीवप्रयोगसहचरिताचेतनद्रव्यपरिणतिलक्षणः स्तंभकुम्मादिः। ४ अ. ५ सू. ३२. ५ वृत्तादिना निरूपयितुं यन्न शक्यं तदनित्थम् । तद्भावोऽनित्थन्त्वम् । तत्पर्यन्तमनेकधा संस्थानम् । ६ समुत्कीर्यमाणदारुप्रस्थकभेरीबुन्दाघर्षादिविषयः औत्कारिकः । ७ अवयवशश्चूर्णनं चौर्णिकः । क्षिप्तपिष्टमुष्टिवत् । ८ खण्डशो विशरणं खण्डभेदः । क्षिप्तमृत्पिण्डवत् । ९ अभ्रपटलभूर्जपत्रादिषु बहुतिथपुटोच्छोटनलक्षणः प्रतरभेदः । १० वंशेक्षुयष्टित्वगुत्पाटनम्- अनुतटः ।

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282