Book Title: Sabhashya Tattvarthadhigam Sutrani
Author(s): Motilal Laghaji Oswal
Publisher: Motilal Laghaji Oswal
View full book text
________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
१७०
शरीरव्यतिरेकेणात्मानमनुचिन्तयेत् । अन्यच्छरीरमन्योऽहम् ऐन्द्रियकं शरीरमतीन्द्रियोऽहम् अनित्यं शरीरं नित्योऽहम् अनं शरीरं ज्ञोऽहम् आद्यन्तवच्छरीरमनाद्यन्तोऽहम् बहूनि च मे शरीरशतसहस्राण्यतीतानि संसारे परिभ्रमतः स एवायमहमन्यस्तेभ्यः इत्यनुचिन्तयेत् । एवं ह्यस्य चिन्तयतः शरीरप्रतिबन्धो न भवतीति अन्यश्च शरीरान्नित्योऽहमिति निःश्रेयसे संघटत इत्यन्यत्वानुप्रेक्षा ॥
अशुचि खल्विदं शरीरमिति चिन्तयेत् । तत्कथमशुचीति चेदाद्युत्तरकरणाशुचित्वादशुचिभाजनत्वादशुच्युद्भवत्वादशुभ परिणामपाकानुबन्धादशक्यप्रतीकारत्वाच्चेति । तत्राद्युत्तरकारणाशुचित्वातावच्छरीरस्याद्यं कारणं शुक्रं शोणितं च तदुभयमत्यन्ताशुचीति उत्तरमाहारपरिणामादि । तद्यथा । कवलाहारो हि ग्रस्तमात्र एव श्लेष्माशयं प्राप्य श्लेष्मणा द्रवीकृतोऽत्यन्ताशुचिर्भवति । ततः पित्ताशयं प्राप्य पच्यमानोऽम्लीकृतोऽशुचिरेव भवति । पक्को वाय्वाशयं प्राप्य वायुना विभज्यते पृथक् खलैः पृथग् रसः । खलान्मूत्रपुरीषादयो मलाः प्रादुर्भवन्ति रसाच्छोणितं परिणमति शोणितान्मांसम् मांसामेदः मेदसोऽस्थीनि अस्थिभ्यो मज्जा मज्जाभ्यः शुक्रमिति । सर्व चैतत् श्लेष्मादिशुक्रान्तमशुचिर्भवति तस्मादाद्युत्तरकारणाशुचित्वादशुचि शरीरमिति । । किं चान्यत् अशुचिभाजनत्वात् अशुचीनां खल्वपि भाजनं शरीरं कर्णनासाक्षिदन्तमल स्वेद श्लेष्मपित्तमूत्रपुरीषादीनामवस्करभूतं तस्मादशुचीति । किं चान्यत् । अशुच्युद्भवत्वात् एषामेव कर्णमलादीनामुद्भवः शरीरं तत उद्भवन्तीति । अशुचौ च गर्भे संभवतीति अशुचि शरीरम् ॥ किं चान्यत् । अशुभ परिणामपाकानुबन्धादार्तवे विन्दोराधानात्मभूति खल्वपि शरीरं कललार्बुदपेशीघनव्यूहसं पूर्णगर्भ कौमारयौवनस्थविरभावजनकेनाशुभपरिणामपाके
१ स्थूलभागः ।

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282