Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 250
________________ श्रीप्रद्युः चित्रं यथा मयूरेषु, यथा हंसषु सद्गतिः । यथा गन्धश्च पोषु, कुलेषु विनयस्तथा ॥ ६९॥ ध्यात्वेति परितुष्टेन, कुशलं च शरी-18 मोहतरू. प्रव्रज्या रके । कलासु कौशलं चापि, तस्य पृष्टं महीभुजा ।। ७० ॥ नृपं यावन्न लज्जात्मा, स किंचिदपि जल्पति । तावदाख्यदुपाध्यायः, छदः सर्वत्र निपुणो ह्ययम् ॥ ७१ ।। परं सत्स्वपि लज्जते, स्वगुणेषु मनीषिणः । इतरास्तु न मोत्यङ्गेऽलीकयाऽपि प्रशंसया ।। ७२ ॥ अगडदचा नीयवृत्ती | इत्थं कुमारवृत्तेन, मुदिते मेदिनीपतौ। समागत्य नमश्चकुः, पौराः प्राभृतसम्भृताः ॥ ७३ ॥ मुदा तदुपदावस्तु, कुमारायार्प-15 | यन्नृपः । पुनर्नत्या च ते राज्ञ, विज्ञा व्यज्ञपयन्निति ॥ ७४ ॥ अलीकामलकामृद्ध्या, कुर्वती देवपूस्तव । दरिद्रमान्दिरातुल्या, ॥२२८॥ विदधे परिमोषिणा ॥ ७५ ।। क्षितिक्षिता तलारक्षं, प्रोचेऽदस्त्वयि सत्यपि । मुष्यते नगरं सर्व, परितः परिमोषिभिः ॥ ७६ ।। भस प्राह दिवसा देव !, बहवोऽपि ममाभवन् । तस्करं वीक्षमाणस्य, न स क्वापि तु वीक्ष्यते ॥ ७७ ।। कुमरेणाथ विज्ञप्तो, नृपो ममादिश प्रभो!। यथैकागारिकं सद्यो, लभेऽहं सुलभेतरम् ॥७८॥ सप्तदिन्याऽप्यलब्धेऽस्मिन्, सप्ताचिषि विशाम्यहम् । राज्ञाऽथ विदधे आज्ञा, सच्चवान् साधयेहितम् ॥ ७९ ॥ नत्वा नरपति मद्यधूतवेश्यासुदुःसहः । मठकांदविकावासोद्यानदेवकुला| दिषु ॥ ८॥ एकागारिकमेकोऽयं, वीक्षमाणो दिवानिशम् । बभ्राम षट् दिनाश्चेत्थं, गतास्तस्य निरर्थकाः ॥ ८१ ॥ सप्त मेऽथ दिने दध्यौ, तमादाय मृगक्षणाम् । यामि देशान्तरं किन्नु?, यद्वा नैतद्धि सङ्गतम् ।। ८२ ॥ निर्वाहः प्रतिपन्ने हि, परमं | पुरुषव्रतम् । तत्र लुप्ते ह्ययं नारी, तन्नारी कामये कथम् ! ॥ ८३ ॥ प्रतिपन्नस्य निर्वाहं, सर्वथा विदधामि तत् । ध्यात्वेति निश्चितोऽगच्छदपराहे पुरादहिः ।। ८४ ॥ अबालस्य रसालस्य, छायायां यावदस्ति सः । परिबाट तावदायातस्तत्रैकस्तस्य चाग्रतः ॥ ८५ ॥ स तं निरीक्ष्य रक्ताक्षं, रौद्रं कर्कशकुन्तलम् । दीर्घजचं करिकराकारं चायं व्यचिन्तयत् ॥ ८६ ॥ शरीर-13 CRA---VOCATEGOCIE SCHOSS*** ३२२८॥ ke-

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278