Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 256
________________ श्री प्रव्रज्या० श्रीप्रद्यु: श्रीयवृत्ती ॥२३४॥ द्विधापि रमणीया सा, समागत्य तमालपत् । कोकिला मधुरालापं, यदेहि गेहमध्यतः ॥ १७७॥ तद्रूपं प्रेक्षमाणोऽसौ सानन्दं नृपनन्दनः । इतो मदनमंजर्याऽपहस्तेनास्तलज्जया ।। १७८ ॥ ऊचे च त्वत्कृते बन्धुः, पिता माता सखीजनः । मयाऽत्याजि गृह तवमन्यासक्तोऽसि निपः ॥ १७९ ॥ तच्छ्रुत्वा धनमुज्झित्वा रथमारुह्य चाग्रतः । गच्छन्नतुच्छधीभिल्लान्नश्यतः पश्यति स्म |सः ॥ १८० ॥ साशंकोऽथ दिशः पश्यन्नपश्यन् मदवारणम् । शुभ्रवर्ण महाकार्य, तरुभंगप्रभंजनम् ॥ १८१ ॥ तं वीच्य सहसो - द्विग्नां, चित्ते मदनमंजरीम् । सम्बोध्योत्तार्य च रथाच्चचाल कलभं प्रति ।। १८२ ॥ उत्तरीये पुरो न्यस्ते, सिन्धुरे वेधदायिनि । कुमारः कुशलः शिक्षावशेनैनं वशे व्यधात् ॥१८३॥ सुचिरं खदयित्वा तं भयभीतं विमुच्य च । रथारूढोऽग्रतो व्याधं, व्यात्तवक्रं व्यलोकत || १८४ ॥ रथं हित्वा भुजं वामं, पटेन परिवेष्टितम् । मुखे तस्य (क्षिइका) परेतं तं कृपाण्या निष्कृपो व्यधात् ॥ १८५ ॥ पुरो व्रजन्नथ श्यामं फणामण्युग्रभासुरम् । सोऽपश्यद् दृग्विषं सर्प, दूरादपि पराङ्मुखम् || १८६ ॥ दृग्बन्धं मुखबन्धं च, विधाय सोऽनवद्यया । विद्यया खेदयित्वा तं त्यक्त्वा चाचलदग्रतः ॥ १८७॥ इत्थमुल्लंघ्य कान्तारं, कान्तारंजनकोविदः । जितशंखपुरं कीर्त्या स शंखपुरमासदत् || १८८|| तमायातं नृपो मन्वा, पुनर्जातमिवांगजम् । प्रत्युज्जगाम तं चैष, ननाम लुठदंगणः ॥ १८९ ॥ तदा पल्लीपतित्रस्तं, कुमारस्याखिलं बलम् । अपरेण पथा पुर्या, तत्सेवायामिवागमत् ॥ १९० ॥ अथ सर्वसहाधीशस्तदुच्चैर्गो पुरं पुरम् | मंचातिमंचकलितं कारयामास तत्क्षणात् ।। १९१ ।। प्रावेशयदथो हस्तिस्कन्धारूढं महामहात् । नृपो नरविमानस्थवधूद्वययुतं सुतम् ।। १९२ || भोजनानन्तरं पृष्टः सर्ववृत्तान्तमंगजः । आख्यत् पित्रे खिदाहर्षभयविस्मयदायकम् ।। १९३ ॥ अन्यदा मानिनीमानम्लानिकृन्मलयानिलः । प्रावर्त्तत वसन्तर्तुः कर्तुमुन्मादिनं जनम् ॥ १९४ ॥ गतेऽथ सुन्दरे राज्ञ्युद्याने अप्रमत्तत्वे अगडदत्तः ॥२३४॥

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278