Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 257
________________ श्री प्रव्रज्या० श्रीप्रधुनीयवृत्ती ॥२३५॥ सुरभिसुन्दरे । तमन्वगात् समग्रेोऽपि जनः परिजनस्तथा ॥ १९५ ॥ कुमारोऽपि सुहृद्वर्गसहितः प्रिययाऽन्वितः । निरीक्ष्यमाणः पौरीभिरगादुद्यानमुद्यतः ।। १९६ ॥ मारोपमः कुमारोऽथ, रतिप्रतिमया तया । समं मदनमंजर्याऽरमताराममध्यगः ॥ १९७ ॥ स्थित्वा चिरं विनोदेन, कुसुमावचयान्वितः । कुमारः सुचिरं स्थित्वा, यावत्किल चलिष्यति ॥ १९८ ॥ तावदाशीविषेणैषा, दष्टा मदनमंजरी । दष्टा दष्टेति जल्पन्ती, पत्युत्संग पपात सा ।। १९९ ।। यावन्मन्त्रादिभिस्तस्याः, प्रतिकारं करोत्ययम् । विषमेण विषेणैषा, तावज्जज्ञे विचेतना || २०० ॥ कुमारो मूच्छितो लब्धचेतनो विललाप च । स्वां संवृत्य स्वयं चित्यामशून्यामकरोदथ ॥ २०९ ॥ तत्र प्रियतमां क्षिप्त्वा स्वं च प्रक्षेप्तुमुद्यतः । सन्धुक्षाप्य त्वसौ यावज्ज्वलनं ज्वलयिष्यति ॥ २०२ ॥ तावत् खेचरयुग्मं द्राक्, तत्रागाद्गगनाध्वना । अपृच्छच्च कुतो हेतोः स्वं क्षिपस्याक्षणौ १ ॥ २०३ ॥ स प्राह प्रेयसीयं मे, प्राणास्ते प्रथमं गताः । कुणपोऽस्मि च तद्धीनः, संगतं ज्वलनं ततः || २०४ || त्वत्प्रियां जीवयामीति, प्रोच्य खेटयुगेन सा । अभिमन्त्रय जलं सिक्ता, निद्राक्षय इवाबुधत् ॥ २०५ ॥ सुसंवृत्तशरीराज्थ, किमेतदितिवादिनी । समुत्तस्थौ क्षणादेव, कुमारस्य मुदा समम् ||| २०६ ॥ विद्याधरयुगे तस्येत्युपकृत्य गते सति । तस्मिन् स सप्रियः प्रत्यासन्नदेवकुलेऽगमत् || २०७|| आनये वह्निमहाय, यावतावदिह त्वया । स्थेयं प्रोच्येति तां यावत्, वह्निमादातुमेति सः || २०८ ।। तावद्देवकुलेऽपश्यदुद्योतं विस्मयावहम् । आगतेन च सा प्रोचे, मयोद्योतोऽत्र वीक्षितः || २०९ || सोचे निजकरस्थाग्नेर्ज्वलितस्य समीरणात् । संक्रान्तो भवतोद्योतः प्रिय ! दृष्टो भविष्यति || २१० ॥ तदा खङ्गं समर्प्यसौ, महीनिहितजानुकः । धीरो धमत्ययं यावद्धनंजयमधोमुखः ॥ २११ ॥ तावत्कराप्रतस्तस्याः करवालं महीतले । पपात निष्परीवारं, स पप्रच्छ च तामृजुः || २१२॥ सा प्राह मनसा मोहात्, पपाता सिर्ममाग्रतः । अप्रमत्तत्वे अगडदत्तः ॥२३५॥

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278