Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
॥ अथ प्रव्रज्याविधानप्रकरणं सावचूर्णिकं प्रारभ्यते ॥
श्री प्रव्रज्या० श्रीप्रद्युम्नीयवृत्ती
१ मनुष्यत्व | दुलेभता.
द्वार
॥२४६॥
+918533
अत्र प्रकरणे दशाधिकाराः, तद्यथा-दुर्लभत्वं मनुष्यत्वे१, बोधेदुष्प्रापता ततः२। प्रव्रज्याया दुरापत्वं ३, तत्स्वरूपप्रकाशनम्४ ॥१॥ तस्या विषमताऽऽख्यानं ५, धर्मस्य फलदर्शनम् ६ । व्रतनिर्वाहकत्वं च ७, श्लाघा निर्वाहकर्तृषु ८॥२॥ मोहक्षितिरुहोच्छेदो ९, धर्मसर्वस्वदेशना १० । धर्मप्रकरणेऽमुष्मिन् , दशद्वारविवेचनम् ॥ ३ ॥ अस्य प्रकरणस्य महार्थस्यापि सूत्रेण स्वल्पस्वात् मनसैवेष्टदेवतां नमस्कृत्याद्यगाथया परमपदसौख्यमुख्यनिबंधनमनुष्यत्वस्यैव दुर्लभतामाह
संसारविसमसायरभवजलपडिआण संसरंताणं । जीवाण कहवि जइ होइ जाणपत्तंव मणुअत्तं ॥१॥
संसार एव विषमः पोतप्राप्तावपि दुस्तरत्वात् सागरस-समुद्रः तत्रापरापरजन्मजले पतितानां परिभ्रमतां जीवानां कथमपिॐ महता कष्टेन यानपात्रमिव मनुष्यत्वं यदि भवति, यतस्तत्र संसारसमुद्र महाभीष्मदुर्दिनप्रबला विषयाः, कुवातप्रेरिता वेला
इवाधिरोहंति नवनवा मनोरथाः, महायादस इवोच्छलंति संयोगवियोगाः, जलाच्छादितपर्वत इव मकरध्वजा, आवर्ता इव दुस्तराः कषायाः, नागदंता इवोत्कटा रागद्वेपाः, महोर्मय इव दुःखपरंपराः, और्वानल इवापथ्यानं, नेत्रवल्लीव स्खलनहेतुर्ममता, नक्रचक्रमिव कुविलल्पजालं, महामत्स्या इव व्याधयः, एतैः सर्वैः पोतभंगहेतुभिः संसारसागरो विषमोऽस्ति ॥१॥ अथ वोधिदुष्प्रापता प्रव्रज्यादुष्णापत्वं च एवं द्वे द्वारे गाथापूर्वार्धोत्तरार्धाभ्यामाह
AALCHEMES
CHES

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278