Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 262
________________ श्री प्रव्रज्या० श्रीप्रद्युनीयवृत्ती ॥२४॥ जातजातिस्मृतिश्चित्तेचिन्तयत् प्राग्भवं निजम् ॥ ११ ॥ विदेहेषु पुरे हेमंधर इत्यायोऽभवम् । लोकस्य केलिपात्रत्वाद्वाम कलिकुण्डनोऽहं मनोहरः॥ १२॥ तथाभूतं च मां भूताभिभूतमिव बालकाः । विभाषन्ते युवानश्च, विटाश्चोपहसन्त्यलम् ॥ १३ ॥ इत्थं च ५ पाश्वः हस्यमानस्य, त्रास्यमानस्य सर्वतः। मूर्खस्य मे मुमूर्षाऽभूदतिवैराग्यतस्ततः॥ १४ ॥ शाखिनो नम्रशाखस्य, शाखायां स्वं विबन्धयन् । श्राद्धेन सुप्रतिष्ठेन, दृष्टः पृष्टश्च कारणम् ॥ १५॥ मया यथातथै तस्य, कथिते स जगाद माम् । वामनः कर्मणा त्वं तद्, उच्छेत्तुं वामनं कुरु ॥१६॥ कथं न्विति मया प्रोक्ते, स प्राह न हि साहसम् । कर्मवामनतोपायः, किन्तु सम्यक्त्वनिश्चयः ॥ १७ ॥ तदेहि सुगुरोः पार्वे, जिघृक्षुव्रतमस्म्यहम् । त्वमाश्रयस्व सम्यक्त्वं, चारित्रमहमाश्रये ॥१८॥ मया गत्वाऽथ सम्यक्त्वमेवंरूपमुपाददे । अर्हन् देवो गुरुः साधुर्धर्मस्तदुदितस्तथा ॥ १६ ॥ तत्प्रपाल्यानशन्यन्ते, निदानं च व्यधामहम् । | उच्चैर्भूयासमित्यार्य !, मृत्त्वाऽभवामिभो वने ॥ २० ॥ छद्मस्थजिनलिंग प्राग्गुरुणति निवेदितम् । भवोऽयं दृषितोऽप्युच्चैदेर्शना-६ दस्य भूषितः ॥२१॥ सरसः सरसैरस्य, सुरसैः पूजयाम्यमुम् । ध्यात्वेत्ययं व्यधाद्भावबन्धुरः सिन्धुरस्तथा ॥ २२ ॥ प्रपाल्य प्राच्यसम्यक्त्वमन्तेऽनशनभागसौ । सुविशुद्धान्तरप्रौढव्यन्तरत्वमवाप च।।२३।। इदमद्भुतमुद्भुतं, चरितं करकण्डुना । श्रुत्वाऽऽयातेन नो दृष्टः, स्वामिस्त्वं तदशोचयत् ॥ २४ ॥ एकोऽपि हस्तिनस्तस्य, हस्तः शस्तो जिनार्चया । उभावपि तमोग्रस्तौ, हस्तौ ॥२४॥ मे तदभावतः ॥२५॥ विश्वाघातकरो विश्वभूषणं चिन्तितप्रदः। स्वामी जगाम ही रत्नमजाग्रत इवाग्रतः॥२६॥ स्वामिनोऽनेकप-12 स्यास्य, प्रसादो यदनेकपे । तद्युक्तं यत्तु मामेकं, न पाति स्म तदद्भुतम् ॥ २७ ॥ इति स्वं शोचतस्तस्य, धरणेन्द्रप्रसादतः । | नवहस्तप्रमाणाऽभूत्, पुरतः प्रतिमा प्रभोः ॥२८॥ ततो जय जयेत्युच्चैः, स्तुवंस्तामनमन् नृपः। चैत्यं च कारयांचक्रे, तत्र तस्याः LAUNCHECCANCERECTROCIECCC SAMREGAOCTOBER

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278