Book Title: Pravrajyavidhankulakam
Author(s): Pradyumnasuri
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 252
________________ श्री प्रव्रज्या० श्रीप्रधुनीयवृत्तौ ॥२३०॥ न्यग्रोधमूले गत्वा त्वं व्याहरेस्तां यथा शनैः । द्वारमुद्घाटयत्याशु सा यद्यापि कुमारिका ।। १०० ।। तस्याः करं गृहीत्वा त्वं, सर्वस्वं मे करे कुरु । पश्च तत्र सुखं तिष्ठेर्गच्छेर्वा नगरे क्वचित् ॥ १०६ ॥ तेनेत्युक्तस्तमाश्वस्य, खड्गमादाय तस्य च । गतस्तत्र कृते शब्दे, सा द्वारमुदघाटयत् ।। १०७ ।। दध्यौ कुमारस्तां वीक्ष्य, बालाऽसौ स्मरसेवधिः । सापि पप्रच्छ कोऽसि त्वं १, किमर्थ - मिह चागतः १ ।। १०८ ।। तेनाथ कथिते कृत्वा, दूनाऽऽप्याकारसंवृतिम् । निवेश्य चासने प्राह, सर्वस्वं जीवितं च ते ॥ १०९ ॥ अत्र वासगृहे तल्पे, त्वं विश्राम्य सुलोचन! | अहं तव कृते गत्वाऽऽनयामि तु विलेपनम् ॥ ११० ॥ उक्तवेति निर्गतेयं द्राक् तस्यां दध्यौ नृपात्मजः । नीतेर्मूलमविश्वासो, विशेषेणावलाजने ॥ १११ ॥ यलोभोऽलीकता मौढ्यमशौचं साहसं छलम् । निस्तृशत्वं च नारीणां सप्त दोषाः स्वभावजाः ।। ११२ ।। गुणप्रेमप्रजामानवपुर्द्रविणयौवनैः । दुर्ग्रहं महिलाचेतः, कथंचन निगृह्यते ॥ ११३ ॥ कामार्त्तः कामिनीनां स्वं, यो ह्यर्पयति पूरुषः । पतत्ययमसंदेहं दुस्तरे दुःखसागरे ॥ ११४ ॥ ध्यात्वेति शय्यामुत्सृज्य यावत्तस्थौ स दूरतः । तावत्तत्र तया मुक्ता, पपात सहसा शिला ।। ११५ ॥ सोवाच सोदरं हत्वा मदीयं क्व नु यास्यसि । श्रुत्वेति धृत्वा केशेषु तामूचे सुन्दरांगभूः ।। ११६ ।। आः पापे ! मां निहन्तुं कः, शक्नोति ? मतिशालिनाम् । जागर्त्ति परषष्ठ्या यः स्वपष्ट्यां किं शयीत सः ? | ११७॥ उक्तवेति बालां बालेषु, धृत्वा तां तद्विरागवान् । आख्यद्राज्ञे इतरस्तत्स्वसा नाप्यसौ पुनः ।। ११८ ।। प्रातः पातालगेहं तद्दर्शितं नृपतेः पुरः । स च यद्यस्य तत्तस्यार्पयत् प्रकृतिवत्सलः ॥ ११९॥ नृपोऽथागडदत्तायादत्त स्वमिव लोचनम् । सुतां कमलसेनाख्यां, कमलामिव जंगमाम् ।। १२० ।। शतं गजानां ग्रामाणामश्वानां पादचारिणाम् । कोशस्य च क्रमेणैप, सर्वं दशगुणं ददौ ।। १२१ ।। इत्थं स लब्धराज्योऽपि यशः प्रसरवानपि । अलीकं मन्यते मोहतरूच्छेदः अगडदत्तः ॥२३०॥

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278