Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha

View full book text
Previous | Next

Page 151
________________ मबसेयं, अभीष्टदेवतानामानन्त्येऽपि पार्श्व इति पदोपादानं परमगुरूणां श्रीमन्नवाङ्गी विवरणकरणगुरूणां श्रीमदभयदेवमूरिमुरतरूणामुपकारित्वेन तदनुयायिनामस्मदादीनां सुतरामुपकारकारकत्वमस्यावगमयति, वांछितदायकत्वं तु विघ्नव्यूहव्यपोहकत्वाऽविनाभावि, नहि विघ्नव्यूहमनपोह्य वांछितदायकत्वं घटामास्कन्दति, तथाच दुरितध्वंसक्षमत्वमप्यस्य निव्यूह, किम्भूतं पौषव्रतपरमार्थ ? 'सुरमहितश्रुतपयोनिधिमध्यगतं' सुरै-देवमहित-समभ्यर्चितं सद्भुतगुणः संस्तुतं वा यच्छ्त-सिद्धान्तस्तदेवालब्धयध्यत्वादिगुणसाधर्म्यणोपचारात्पयोनिधिःसमुद्रस्तस्य यन्मध्यं तद्गत-प्राप्तं येन स तथा तं, सिद्धान्तान्तर्गतमिति भावः, पुनः किम्भूतं पौपधव्रतपरमार्थ ? 'जनानां प्रस्तावत् भव्यसच्चानां सुहितार्थ' मुष्टु-शोभनो हित एवार्थः-प्रयोजनं यस्य स तथा तं, अथवा 'मुहितार्थ सुष्टु हितनिमित्तमिति क्रियाविशेषणं, अन्योऽपि परमकारुणिकः पश्यतीति पश्यस्तं पश्य-सर्वज्ञं प्रणम्य 'सुरमथितश्रुतपयोनिधिमध्यगतं' सुरमथितश्चासौ श्रुतः प्रसिद्धश्चासौपयोनिधिश्च तस्य मध्यगतमन्तःस्थं 'अर्थ'द्रव्यं-रत्नादिरूपं 'शुद्धदृष्टया' अञ्जनविशेषविशिष्टचक्षुषा 'लब्ध्वा' उपलभ्य 'जनानां' सांयात्रिकलोकानां दर्शयति| समादेयतया प्रकटीकरोति, किम्भूतमर्थ ? 'पौपधत्रतपरं' पौषधव्रते-इष्टजनपोषाभिग्रहे परं-प्रकृष्टं, किमर्थ ? 'सुखितार्थ' सुखिनो भावः मुखिता तदर्थ, सुखित्वनिमित्तमित्यर्थः, अत्राभिधेयः पौषधः, हितार्थपदेन कर्तृश्रोतृगतं प्रयोजनं, सम्बधस्तु वाच्यवाचकभावलक्षणोऽधिकारी तु प्रकरणादगारीति गाथाद्वयार्थः ।१-२॥ अथ प्रारब्धप्रकरणे अभिधेयं पौषधव्रतस्वरूपमुपवर्णयितुं गाथामाह आरंभदोसभारु-व्वहणेण य परिकिलंतचित्तस्स । आसासमिव पोसह-वयं पसंसंति वरगिहिणो ।३। व्याख्या-गृहं विद्यते यस्य स गृही, वरश्चासौ गृही च वरगृही, तस्य वरगृहिणः, गृहस्थस्यापि वरत्वं गुरुपादमूलगृहीतजिनशासनप्रसिद्धाणुव्रतादिदेशविरतिमत्त्वात् , यतः संसारवासादतिशयोद्विग्नमानसा अपि मोक्षं यियासवोऽपि विशिष्टवीर्यान्तरायक्षयोपशमा

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210