Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha
View full book text ________________
पौषधपट्त्रिंशिका
॥१०॥
व्याख्या-'आवश्यकतत्त्वार्थश्रावकप्रज्ञप्तिग्रन्थवृत्तिषु' आवश्यकं च तत्त्वार्थच श्रावकज्ञप्तिग्रन्थश्च आवश्यकतत्त्वार्थश्रावकमज्ञप्तिग्रन्थास्तेषां ।
सोमीया या वृत्तयस्तास्तथा, तासु, पञ्चाशकचूर्णी च 'तस्ये ति पौपधनतस्य 'प्रतिदिनकरणे' प्रतिवासरं विधाने 'निषेधोऽपि न केवलं तस्य प्रतिनियतदिवसेषु विधानमेव न्यवेदि, प्रत्युत प्रतिदिवसविधाननिषेधोऽपि समुपनिबद्धः, इत्यपि सामर्थ्यसमर्थितोऽर्थः, वर्तते इत्यनुवर्तनीय, | तत्रावश्यकवृत्तिर्यथा-"एत्थ समणोवासगधम्मे पंच अणुवयाई तिनि गुणहयाई आक्काहियाणि, चत्तारि सिख्खावयवयाणि इत्तरियाई" इत्यावश्यकसूत्र (८३८ पत्रे), अस्य व्याख्या-''अत्र पुनः श्रमणोपासकधर्म, पुनः शब्दोऽवधारणार्थः, अत्रैव, न शाक्यादिश्रमणोपासकधर्म. सम्यक्त्वाभावेनाणुव्रतायभावादिति, वक्ष्यति च 'एत्थ पुण समणोबासगधम्मे मूलवत्थु सम्मत्त मित्यादि, पञ्चाणुव्रतानि-पतिपादितस्वरूपाणि त्रीणि गुणव्रतानि-उक्तलक्षणान्येव, यावत्कथिकानीति-सकृद्गृहीतानि यावज्जीवमपि भावनीयानि, चत्वारीति संख्या, शिक्षापदव्रतानीति शिक्षा अभ्यासस्तस्य पदानि-स्थानानि, तान्येव व्रतानि शिक्षापद व्रतानि, इत्वराणीति, तत्र प्रतिदिवसानुष्ठये द्वे सामायिकदेशावकाशिके पुनः पुनरुच्चार्य इति भावना, पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ, न प्रतिदिवसाचरणीयाविति" (८३९ पत्रे), तथा "दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगारिभोगपरिमाणातिथिसंविभागवतसम्पन्नश्च (त०अ०७-मू०१६), व्याख्या-कृतद्वन्द्वान दिगादयस्तैः 'सम्पन्नः' समृद्धः-संयुक्तः, चः शब्दः समुच्चयवचनः, पतिपन्नाणुव्रतस्यागारिणस्तेषामेवाणुव्रतानां दाढापादनाय शीलोपदेशः, शीलञ्च गुणशिक्षाबतमयं, तत्र गुणव्रतानि त्रीणि-दिगुपभोगपरिभोगपरिमाणानर्थदण्डविरतिसंज्ञान्यणुव्रतानां भावनाभूतानि, यथाऽणुव्रतानि तथा गुणव्रतान्यपि सकृद्गृहीतानि यावज्जीवं भावनीयानि शिक्षापदव्रतानि-सामायिकदेशावकाशिकपौषधोपवासातिथिसंविभागाख्यानि |RA चत्वारि, प्रतिदिवसानुष्ठेये द्वसामायिकदेशावकाशिके, पुनः पुनरुच्चार्यते इति यावत्, पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ,
Loading... Page Navigation 1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210