Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha

View full book text
Previous | Next

Page 198
________________ पौषध षत्रिंशिका खरतर जयसोमीया चर(णातः)णया' रागद्वेषादिदोषविमुखविशिष्टलाभलिप्मुसंविग्नपूर्वाचार्याचरणात 'ए(य'ति) एतत्पौषधवत 'अनुमत' वांछित उपधानतपी- विशेषादिषु, तत्र हि यद्यप्युपधानतपसि पौषधवतं श्रीमन्महानिशीथे नोक्तं, तथापि समस्तगच्छीयगीतार्थसम्मततया सर्वेष्वपि धर्मगच्छेषु र नियतं, तथा स्वस्वोपधानदिनप्रमाणतया तत्स्वस्वतपोयोगविधिप्रकरणेषु गीतार्थनिबद्धं दृश्यते, तैः कार्यमाणं चोपासकैरुपलभ्यते, तथाहि"श्रावकश्राविकाणां तु एकस्मिन्नुपधाने अव्यूढेऽपि गुर्वाज्ञया अनुज्ञानन्दी विधीयमाना दृश्यते, परमेतैरहोरात्रपौषधदिनानि पश्चादपि शीघ्रं सविशेष पूरणीयानि" इति श्रीमच्चन्द्रगच्छीयश्रीमदजितदेवमूरिनिर्मितयोगविधिप्रकरणे, तथा “पौषधग्रहणपुरस्सरमुपधानतपोविधेयमित्युपधानविधिरुच्यते” इति श्रीअभयदेवसरिशिष्यपरमानन्दकृतसामाचारीग्रन्थे. तथा “पौषधक्रिया तु यद्यपि महानिशीथे साक्षान्नोक्ता तथापि यथा साधोर्योगेष्वतिशायिक्रियावत्वं सर्वप्रतीत तथा श्राद्धानामप्युपधानेषु विलोक्यते” इत्याचारप्रदीपे रत्नशेखरमूरिकृते(१९पत्रे), || एवञ्च सर्वगच्छीयगीतार्थाचीर्णत्वादुपधानेष्वस्मद्गुरुभिरप्यादृतं पौपधवतं, दृष्टं हि सिद्धान्तानिवद्धमपि किश्चित्संविग्नश्रुतधराचरितकल्प प्रावरणादिकं सर्वैरप्यङ्गीकृतं, उक्तञ्च धर्मरत्नप्रकरणे “कप्पाणं पावरणं, अग्गोअरचाउ झोलिआ भिख्खा। उवग्गहियकडाहय-तुवयमुहदाणदोराई।८२॥” इत्यादि, एवञ्चोपधानतपस्यपि पौषधव्रतमाचरणयाऽनुसन्धेयं. तद्वन्नचान्यापि तिथिः कश्चिदाचार्यैराचीर्णतया नियतत्वेन स्वकृतग्रन्थेषु निवद्धा दृश्यते, मतानुरागीनिबद्धा तु न प्रमाण, आचरणालक्षणाभावात् , तल्लक्षणं तु "असढेण समाइण्ण"मित्यादिकल्पभाष्योक्त्या ऽवसेयं, ननु नवपदविवरणे (२७१ पत्रे) पौपधाधिकारे “यदुक्तं-पोसहउववासो उण, अमिच उद्दसौमु जम्मदिणे । नाणे निवाणे चाउमासअठ्ठाहिपज्जुसणे ।।" इति पूर्वाचार्यसम्मतिभूतगाथाव्याख्यायां "अट्टाहित्ति-अष्टाहिकाश्चैत्राश्चयुग्मासानन्यायदिनेष्षष्टमीप्रभृतयो याः क्रियन्ते तासु कल्याणकदिनाष्टाहिकामु वा. एतेषु च दिनेषु सुश्रावकस्य जिनपृजातपोविशेषोद्यमो भणित एव, यदाह ॥ २५॥

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210