Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha

View full book text
Previous | Next

Page 177
________________ दय्यादितया न ‘ग्रहीतव्य' नाणीकार्य, 'यदी'ति पूर्वपक्षिपक्षोद्बोधः, पूर्वन्तु तयुगपद्ग्राह्यमासीदेवेति हृदयं, 'ता'तहि 'नून' निश्चित पर्वण्येव पौषधग्रहणं 'तस्य' सुबाहो मत'मभीष्टं । अयम्भावः-यदीदानीमेव तद्वयाद्युपादानवैधुर्य तदा तवाभिप्रायेण तदानीं तदानीन्तनोपासकानां तथैव तदासेव्यमासीदित्यायातं, तथाच स्वमुखेनैव सुखेन देवानुप्रियेण भवता पर्वण्येव तस्य पौषधग्रहणं सम्मानितं, अपर्वणि तद्ग्रहणनिषेधश्चायातः, एवञ्चानायासेन सिद्धं नः समीहितं, अस्माभिरपि पौषधस्यापर्वणि ग्रहणमेव निषिध्यते, न तु पौषधिकस्यापर्वण्यवस्थानमपि, साम्प्रतं तथा व्यवहारात्, भवताप्यपर्वणि पौषधग्रहणं साध्यते, न तु पौषधिकस्यापर्वण्यवस्थानमपि, सिद्धसाधनात् , तथा चेष्टापत्तिरस्माकं, परं पूर्वीचार्य परम्परयोविरोधो दुर्द्धरः, सम्प्रदायस्यापि शास्त्राचारानुयायित्वादिति तत्त्वं ॥१९॥ नन्वस्य युगपत्पौषधग्रहणे | पूर्वोक्तदोपोद्भावनाद्भिन्नभिन्नपौपधत्रयग्रहणे च शास्त्रसम्मत्यभावात्सूत्रे च "पोसह पछि जागरमाणे विहरइ” इति पाठेन 'पौषध'मित्यनेनैक(वचनेनैक) व्रतबोधात्तत्रित्वं दुरुपपाद, इति “इतो दंदशूक इतोऽन्धकूप"इति न्यायेन पक्षद्वयं दुस्साधमिति वादिनि प्रतिवादिनि तद्व्यवस्थामाह अम्हाण संपयाए, काऊण य सो अभत्तदुगमेव । अठमजुत्तो पोसह-वयं च पव्वे अकासि त्ति । २०॥ व्याख्या-अस्माकं 'सम्प्रदाये' गुरुक्रमे इति वर्तते इति क्रिया योज्या, इतीति कि ?, 'स'सुबाहुः 'अभक्तद्वयमेव' उपवासद्वयमेव. न तु पौषधद्वयं, पौषधकारणानामुच्चारप्रश्रवणस्थण्डिल्लप्रतिलेखनादीनां पर्वदिन एव प्रतिपादनात् , 'कृत्वा' विधाय 'पर्वणि' चतुर्दश्यष्टम्याद्यन्य-15 तरस्यां तिथौ 'पौषधवत' पर्वदिनानुष्ठयाभिग्रहविशेष 'अकार्षीत' करोतिस्म, किं विशिष्टः ? 'अष्टमयुक्तः' अष्टमेन श्रुतमसिद्धेन तपसा युक्तोऽष्टमयुक्त इति गाथार्थः । अयम्भावः-सुबाहुश्चतुर्दश्यादिपर्वणः पुरा पश्चाद्वा दिनद्वये पौषधद्वयविधाने शास्त्रसम्मत्यभावात् युगपत्तत्रयानङ्गीकाराच पर्वणः पुरा अभक्तव्यं विधाय पर्वणि अष्टमयुतः पौषधमकार्षीदिति, नन्वष्टमस्य प्रथमदिन एवाङ्गीकार्यत्वात्यान्त्यदिने कथ

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210