________________
दय्यादितया न ‘ग्रहीतव्य' नाणीकार्य, 'यदी'ति पूर्वपक्षिपक्षोद्बोधः, पूर्वन्तु तयुगपद्ग्राह्यमासीदेवेति हृदयं, 'ता'तहि 'नून' निश्चित पर्वण्येव पौषधग्रहणं 'तस्य' सुबाहो मत'मभीष्टं । अयम्भावः-यदीदानीमेव तद्वयाद्युपादानवैधुर्य तदा तवाभिप्रायेण तदानीं तदानीन्तनोपासकानां तथैव तदासेव्यमासीदित्यायातं, तथाच स्वमुखेनैव सुखेन देवानुप्रियेण भवता पर्वण्येव तस्य पौषधग्रहणं सम्मानितं, अपर्वणि तद्ग्रहणनिषेधश्चायातः, एवञ्चानायासेन सिद्धं नः समीहितं, अस्माभिरपि पौषधस्यापर्वणि ग्रहणमेव निषिध्यते, न तु पौषधिकस्यापर्वण्यवस्थानमपि, साम्प्रतं तथा व्यवहारात्, भवताप्यपर्वणि पौषधग्रहणं साध्यते, न तु पौषधिकस्यापर्वण्यवस्थानमपि, सिद्धसाधनात् , तथा
चेष्टापत्तिरस्माकं, परं पूर्वीचार्य परम्परयोविरोधो दुर्द्धरः, सम्प्रदायस्यापि शास्त्राचारानुयायित्वादिति तत्त्वं ॥१९॥ नन्वस्य युगपत्पौषधग्रहणे | पूर्वोक्तदोपोद्भावनाद्भिन्नभिन्नपौपधत्रयग्रहणे च शास्त्रसम्मत्यभावात्सूत्रे च "पोसह पछि जागरमाणे विहरइ” इति पाठेन 'पौषध'मित्यनेनैक(वचनेनैक) व्रतबोधात्तत्रित्वं दुरुपपाद, इति “इतो दंदशूक इतोऽन्धकूप"इति न्यायेन पक्षद्वयं दुस्साधमिति वादिनि प्रतिवादिनि तद्व्यवस्थामाह
अम्हाण संपयाए, काऊण य सो अभत्तदुगमेव । अठमजुत्तो पोसह-वयं च पव्वे अकासि त्ति । २०॥ व्याख्या-अस्माकं 'सम्प्रदाये' गुरुक्रमे इति वर्तते इति क्रिया योज्या, इतीति कि ?, 'स'सुबाहुः 'अभक्तद्वयमेव' उपवासद्वयमेव. न तु पौषधद्वयं, पौषधकारणानामुच्चारप्रश्रवणस्थण्डिल्लप्रतिलेखनादीनां पर्वदिन एव प्रतिपादनात् , 'कृत्वा' विधाय 'पर्वणि' चतुर्दश्यष्टम्याद्यन्य-15 तरस्यां तिथौ 'पौषधवत' पर्वदिनानुष्ठयाभिग्रहविशेष 'अकार्षीत' करोतिस्म, किं विशिष्टः ? 'अष्टमयुक्तः' अष्टमेन श्रुतमसिद्धेन तपसा युक्तोऽष्टमयुक्त इति गाथार्थः । अयम्भावः-सुबाहुश्चतुर्दश्यादिपर्वणः पुरा पश्चाद्वा दिनद्वये पौषधद्वयविधाने शास्त्रसम्मत्यभावात् युगपत्तत्रयानङ्गीकाराच पर्वणः पुरा अभक्तव्यं विधाय पर्वणि अष्टमयुतः पौषधमकार्षीदिति, नन्वष्टमस्य प्रथमदिन एवाङ्गीकार्यत्वात्यान्त्यदिने कथ