________________
पौषधपविशिका
खरतर जर सोमीया
॥१४॥
सरिकृतपतिक्रमणसूत्रवृत्तौ, पौषधस्तु सामायिकावियुतः, तत्समाप्तौ च तस्यापि समाप्तेः, तेनैकदिनमेव पौषधोच्चारावस्थितिः, द्वितीयदिने तु | पुनरप्युचारे कृते एव स्यान्नेतरथेति दिक् ।१७। ननु कथमेवमवसितमिति मतिभ्रान्ति निरसिसिषुराह
देवसियाहोरत्तिय-रत्तियभेएहि पोसहो तिविहो । जं उच्चारेंति नवा-ऽहोरत्तदुगाइमाणेणं ।१८। व्याख्या-'जमि'ति यस्मात्कारणा'त्पौषधः' पौषधव्रतं 'दैवसिकाहोरात्रिकरात्रिकभेदेन' दिवसे भवो दैवसिक, अहश्च रात्रिश्च अहोरात्रं. अहोरात्रेण निवृत्तः अहोरात्रिका, रात्रौ भवो रात्रिक, देवसिकश्चाहोरात्रिकश्च रात्रिकश्च दैवसिकाहोरात्रिकरात्रिकास्ते च ते भेदाश्च ते तथा. तैत्रिविध उच्चारयन्ति सर्वेऽपीति शेषः, 'नवेति नैव 'अहोरात्रद्विकादिमानेन' अहोरात्रस्य छिकं अहोरात्रद्विकं, तदादियन्मानं तेन अहोरात्रद्विकादिमानेन, अयम्भावः-शास्त्रेऽपि पौषधे त्रैविध्यमेव, तथाहि-"पडिपुण्णं पोसह सम्म अणुपालेइ”त्ति-प्रतिपूर्ण इत्यहोरात्रं यावत्" इति तृतीयाङ्गे तृतीयाश्वासाधिकारे (२३७ पत्रे), अन्यत्राप्येतत्पदव्याख्यायामयमेवार्थः, तथा चोत्कृष्टपौषधस्याहोरात्रमानतैवोक्ता, तथा "पोसह दुहओ पख्खं, एगरायं न हावए" इत्यत्र “रात्रिग्रहणं च दिवा व्याकुलतया कर्तुमशक्नुवन् रात्रावपि पोषधं कुर्यात्" इत्युत्तराध्ययनवाक्यप्रामाण्याद्रात्रिपौषधस्यापि ग्रहणं सङ्ग्रहीत, एतत्पदापेक्षया सर्वगच्छव्यवस्थया दिवसपौषधग्रहणमपि ध्येय, एवश्च सर्वैर्गीतार्थदेवसिकादिभेदेन त्रिधा पौषधव्रतमुच्चार्यते, न च दिनद्वयादिप्रतिबद्धं तत्केनापि श्रुतेन बोध्यवे नापि केनापि साध्यते इति भावार्थः ॥१८॥ ननु साम्पतं पुरुषपरम्परया पौषधस्य युगपद्दिनद्वयत्रयाधुच्चार्यता नोपादेया तदानीन्तु तथा समुपादेया भविष्यतीति यद्भविष्यवाच्यं दूषयन्नाह
संपइ परंपराए, जइ जुगवं तं वयं न गहियव्वं । ता नूणं पव्वेचिय, पोसहगहणं मयं तस्स ।१९। व्याख्या-'साम्प्रतं' जीतव्यवहारव्यवहरणावसरे ‘परम्परया' पूर्वाचार्यादिक्रमेण तद्वत' प्रस्तावात्पौषधाख्य 'युगपदे'ककालं दिन
॥१४॥