________________
- कस्मिंश्चित्काले ‘अष्टमयुतः' अष्टमेन-समयसंज्ञयोपवासत्रयेण युतः सहितः, प्रत्याख्याताष्टमतपा इत्यर्थः, 'पौष,' पौपचवतं 'अकार्षीत्'
चकार इति 'सुखविपाके' सुखविपाकीयप्रथमाध्ययने 'उक्त' कथितमिति, तथाहि "ततेणं से सुबाहुकुमारे अण्णया कयाई चाउद्दसऽमुहिट्ठपुण्णमासिणीसु जेणेव पोसहसाला तेणेव उवागच्छइ २त्ता पोसहसालं पमज्जइ २त्ता उच्चारपासवणभूमि पडिलेहेइ २त्ता दभ्भसंथारं संथरइ २त्ता दभ्भसथारं दुरूहति २त्ता अमभत्तं पगिण्हति २त्ता पोसहसालाए पोसहिए अहमभत्तिए पोसह पडिजागरमाणे २ विहरई" इति सुखविपाकीयाद्याध्ययने (१३ पत्रे), तथाच सिद्धान्ते सुबाहुकुमारस्यापि पर्वदिने एव पौषधग्रहणमुपदिष्टमिति भावः ।१६। ननु समवसितमेवतत्तस्य पर्वदिने पौषधग्रहणं, परमग्रेतनदिनद्वये का पौषधग्रहणव्यवस्थेति असाधितायां दिनद्वयव्यवस्थायां तत्साधितमप्यसाधितमाय, व्यभिचारसार्यात् , इति पूर्वपक्षिविवक्षायां तव्यवस्थामाह
तत्थ य परंपराए, सव्वेसि धम्मगच्छगीयाणं । एगदिणाओ पुरओ, पोसहगहणं पुणोऽणुमयं ।१७। ___व्याख्या-'तत्र चेति पौषधदिनव्यपर्वव्यवस्थायां 'परम्परायां' शिष्यपशिष्यादिप्रणालिकारूपायां सर्वेषां' समस्तानां 'धर्मगच्छ - गीतानां' धर्मप्रधानाः-न तु कदाग्रहग्रस्ताः-ये गच्छाः-साधुसमुदायरूपास्ते धर्मगच्छास्तेषु ये गीताः-गीतार्थाः-सूत्रार्थविदस्ते तथा. तेषांद्र धर्मगच्छगीतानां 'एकदिनात्' एकस्माद्दिनात्पुरतः बहुपौषधकर्तणां 'पुनः पौषधग्रहणं' द्वितीयादिदिनेषु पुनः पौषधाचरणं 'अनुमत' वांछित-इष्टमिति यावत्, अयम्भावः-पौषत्रिय विधित्सुर्दिनमेकं पौषधं कृत्वा पुनद्वितीये दिने पौषधं पुनस्तृतीयेऽहनिपौषधं विदधाति, न तु सकृद्गृहीतं दिनत्रयादिकमनुवर्त्तयतीति सर्वगच्छीयगीतार्थानामभिमतं, सामायिकस्योत्कष्टतोऽप्यष्टप्रहरावस्थितेरेव सर्वसम्मतत्वात् , “यदुक्तं सामायिकाधिकारे 'जाव नियम पज्जुवासामि' इति, नियमश्च जघन्यतो मुहूर्त्तमानः, उत्कृष्टतो अहोरात्रमानकालः" इति श्रीश्रीचन्द्र