________________
पौषधपटत्रिंशिका
॥ १३ ॥
जेठाले बारस - दिणाओ सव्वाणि जेण पव्वाणि । पव्वेसु तेण पोसह - गहणं तस्सासि इय अन्ने । १५ ।
व्याख्या- 'अन्ये' इति केचन विवेचका इति आहुरित्यध्याहार्यः 'तस्ये 'ति नन्दमणिकारस्य 'तेन' हेतुना पौषधग्रहणं पर्वसु 'आसीत् ' बभूव " यत्तदो ( नित्याभि ) सम्बन्धात् " तेनेति कुतः ?, 'येन' कारणेन 'ज्येष्ठामूले' ज्येष्ठमासे द्वादशीदिनात्सर्वाणि पर्वाणि सन्ति, शास्त्रसम्मत्या कल्याणकानामपि पर्वरूपखात्, अयमत्र भावः - चतुर्दश्यपेक्षया पुरा दिनद्वयी द्वादशीत्रयोदशीरूपा, ततो 'ज्येष्ठामूलमासे' ज्येष्ठसितपक्षे द्वादश्यां श्रीसुपार्श्वस्य जन्म त्रयोदश्याश्च श्रीसुपार्श्वदीक्षा चतुर्दशी तु पर्वैवेति पर्वत्रयं वृत्तं तथाच द्वादश्यां पौपधाङ्गीकारात् चूर्णिकाराभिप्रायेण पर्वणि पौषधग्रहणं त्रयोदश्यां पर्वभूतायां द्वितीयं चतुर्दश्यां तृतीयं पौषधग्रहणं. नवपदनृत्य भिप्रायेण रात्रौ च तृपातिरेकः, इति नैकोऽपि दोषः, न चैकादश्यां पर्वत्वेन प्रसिद्धायां प्रथमपौषधग्रहणं. द्वादश्या अवमतिथित्वेन त्रयोदश्यां द्वितीयं चतुर्दश्यां पर्वत्येन तृतीयं तदिति द्वयोरपि शास्त्रयोः समं समाधानमिति वाच्यं, ज्येष्ठे सिद्धान्ताभिप्रायेणावमतिथेरेवाभावात्, “सति धम्मिणि धर्मचिन्ते "ति न्यायात्कथं द्वादश्या असभ्य ( अवमत्व ) मायातं ?, तथाहि - " भदवयकत्तियपोसे, फग्गुणवइसाहमास आसाढे । एयाउ पति तिही, नूणं एए मासे |१| " इति ज्योतिष्करण्डकवाक्यप्रामाण्यात्, तथाच नैतत्समाधानं साधीय, इति सर्वे समञ्जसं । १५॥ ननु नन्दमणिकाराधिकारे पदिनानुगता पौषधव्यवस्था सा(धु ) ध्वी व्यवस्था पिता, परं विपाकश्रुतोपश्रुतमुख विपाकीयाद्याध्ययनाधीतसुबाहोः पौपधत्रये किमालम्बनमालम्बनीयमिति विवक्षं पूर्वपक्षिणं शिक्षयन्नाह
तहय सुबाहू चाउ - साइपव्वेसु अण्णया कासी । अहमजुओ य पोसह मिय बुत्तं सुहविवागम्मि | १६ | व्याख्या- ' तथाचे' ति पुनर्यथा नन्दोदायनौ तथा सुबाहुरपि 'चतुर्दश्यादिपर्वसु ' चतुर्दश्यष्टम्युद्दिष्टापौर्णमासी रूपोत्सव दिनेषु 'अन्यदा'
खरतर जय
सोमीया
॥ १३ ॥