________________
तत्थ अभत्तद्गं सो, पुव्वमपव्वेसु कासि पव्वदिणे । पोसहवयं ति नजइ, पुट्विं पव्वस्सऽणुवलंभा ।११।
व्याख्या-तत्रे'ति पूर्वोक्तप्रश्ने प्रतिविधीयते इति योज्य, 'स' नन्दमणिकारः 'पूर्व'मिति पर्वदिनापेक्षया पुरा 'अपर्वणो' पर्वव्यतिरिक्तदिनयोः 'अभक्तद्विक'मुपवासद्वयमकार्षीत् . पर्वदिने तृतीये पौषधव्रतमकार्षित् . इति 'विज्ञायते'ऽवगम्यते, तत्र हेतुमाह-पूर्व पर्वणो 'अनुपलम्भात्' अनुपलब्धेः, अयम्भावः-नवपदप्रकरणविवरणकारेण चतुर्दश्यां पौषधव्रतं पिपासा च दर्शिता, प्रतिक्रमणसूत्रचूर्णिकृता तु पर्वणि पौषधग्रहणं तृतीयदिने पिपासेति प्रोक्तं, ततश्चतुर्दशीतः पूर्वदिनद्वये पर्वान्तरस्याभावात्. सति पर्वणि पूर्वपौषधकल्पनेति. समधिगम्यते च प्रतिक्रमणचूर्णिकृतोऽपि तिथिनामग्रहणाभावेऽपि पर्वण्येव पौषधग्रहणमभिमतमिति, पर्व तु नवपदवृत्तिकृता चतुर्दशीति नामग्राई गृहीतं, ततः पर्वापर्वविचारविधुरं उपवासद्वयं. अष्टमान्यथाऽनुपपच्या. पूर्व कृषा चतुर्दशीपर्वणि पौषधव्रतं तेन कृतमिति, तथाच मध्यमदिने पर्वापर्वविचारणाऽपि दत्तप्रत्युत्तरा, तृतीयदिनोदन्या(तृषा)निरूपणन्तु उपवासद्वयानुविद्धचतुर्दशीरूपतृतीयदिनापेक्षया मन्तव्यमिति युक्तिलेशः, तथाचास्मत्यांचा श्रीजिनपालो(श्रीप्रबोधचन्द्रो)पाध्यायाः सन्देहदोलावलीबृहद्वृत्तौ (५८ पत्रे) “जेट्टामूलमासंसीति-ज्येष्ठपूर्णिमायामष्टम भक्ते तृतीयदिवसे पर्वण्येव त्रिदेवसिके प्रतिमान्त्यरात्रौ कायोत्सर्गवत् पौषधस्य सम्भवात् कथं नन्दमणिकारस्य दृष्टान्तेन पौषधस्यापर्वानुष्ठानता?" इति ध्येयं, न च भवत्पूर्वजैः सह नवपदवृत्तिकृतः पूर्णिमाचतुर्दशीदिनकृतपौषधत्वे महान् विरोध इति वाच्यं, उभयत्रापि | पर्व दिनखसाधादविरोध एवेति गाथार्थः ॥१४॥ ननु तेषामियं मतिः सुन्दरैव, परं प्रतिक्रमणचूर्णिशास्त्रे पौषधग्रहणदिनात्तृतीयदिने तृषा प्रतिपादिता, उपवासट्यापेक्षया तृतीयदिनत्वं तु काल्पनिक, तेन नवपदवृत्तिकृदुक्तचतुर्दशीदिनाविपर्यासेन पर्वदिनदयपुरस्सरं काचिपौषधव्यवस्था विधेयेति परोक्तं परोक्त्या समर्थयबाह