________________
पौपध
रयणीइ चरमजामे, सुहलेसो इय विचितेई 16०1"इतिवाक्यं स्वोपज्ञसङ्घाचारवृत्तौ, येनैवमाक्षिप्तवानिति दिक् ।१२। नन्वास्ता नन्दो
खरतर जयपटनिशिका दायनयोक्तव्यवस्थया पर्वतिथिषु पौषधग्रहणं, परं नन्दकृतदिनत्रयात्मकपौषधस्यापर्वष्णेच निष्टा समभृत्ततो मधुनि विषसम्पृक्ते मधुनो
sal सोमोया ॥१२॥ विषपक्षनिक्षेपोपाख्यानेनेदमस्मदुपन्यस्तनन्दोदाहरणमद्यापि बाधावहमेवेति विवक्षोर्वासनां निर्वासयन्नाह
अण्णत्थ कयचउद्दसि-रयणीपोसहवयस्स नंदस्स । तिण्हावुत्तेत्ति तओ, पव्वेच्चिय तस्स निठा वि ।१३।। __ व्याख्या-'अन्यत्र' पुनः शास्त्रान्तरे यद्यपि श्रावकातिक्रमणचूर्णी "तइयदिणे रयणीए तस्स ति(हा)स्सा दुस्सहा कहवि जाया" ka इति वाक्येन स्थूलन्यायेन पर्वदिनगृहीतपौषधात्पर्वापर्वविवेकताविधुरे तृतीयदिने पिपासा तस्य प्रादुरासीदिति विन्यस्तं, तथापि B पश्चाधिकादशशतमितसंवद्वर्तमानीकेशगच्छीयककुदाचार्यसन्तानीयोपाध्यायश्रीयशोदेवकृतायां नवपदपकरणवृत्ती (५४ पत्रे) "अन्यदा |च त्रैलोक्यवान्धवे भगवति सिन्धुविषयमुदायनराजश्रावकस्य प्रजाजनाथ गतवति नन्दमणिकारश्रावको ग्रीष्मचतुर्दश्यां पौषधिको बभूव,
अस्तङ्गते रवौ विहितः सायन्तनसन्ध्याऽऽवश्यकविधेमध्यानरतस्य चास्य कस्याश्विद्वेलायां पिपासा वेदना प्रादुरभूत् , ततस्तया बाध्यमानश्चिन्तयामासे"ति वाक्येन नन्दस्य'नन्दमणिकारस्य कृतचतुर्दशीरजनिपौषधवतस्य 'तृषा' पिपासा 'उक्ता' प्ररूपिता, उपलक्षणाद्रुभुक्षाऽपि, 'ततस्तस्मादेतोः पर्वण्येव 'तस्य' पौषधव्रतस्य 'निष्ठाऽपि' परिपूर्णत्वं समभृत , तथाच 'नन्दस्य' पर्वण्येव पौपधग्रहणनिष्ठे समुपदिष्टे, इति
सर्व सुस्थमिति गाथार्थः।१३। ननु भिन्नकर्तृकग्रन्थद्वयसम्मत्या पौषत्रियस्यादावन्ते च पर्वदिने प्रत्येकं साधुसन्दर्शिते मध्यस्थदिनस्याद्यापि * पर्वत्वे किञ्चित्प्रष्टव्यमप्यस्ति, परं चतुर्दशीदिनात्पूर्वपर्वाभावात् तृतीयपौषधस्य चतुर्दश्यां समाप्तिः पर्वणि च पारम्भ इति महद्वैपरि-|
त्यमाभाति, तेनोभयोरपि शास्त्रकारयोरन्योऽन्य संवादिता विशंस्थूलेति, कथमेतयोः समाधानमाधेयमिति पूर्वपक्षिसत्कमाक्षेष परिहरन्नाह