Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha
View full book text ________________
किंतु तहिं जइ कल्ला-णयाइ होजा? तओ वयं कुजा। इहरा न वत्ति ते पुण, नियमियदिणगहणओ न सया।३०।
व्याख्या-'किन्तु' इति पदं स्वाङ्गीकृतबीजान्तरोद्बोधक. तेन 'तहिति नियमिततिथिव्यतिरिक्तासु तासु' प्रतिपदादिषु तिथिषु 'यदि कल्याणकादि'एतदवसर्पिणीसमुद्भूतनाभेयादिजिनच्यवनजन्मनिष्क्रमणज्ञान निर्वाणदिनानि कल्याणकशब्दाभिधेयानि, तदादि-तत्मभृति. उत्सवविशेषोपलक्षणमिदं 'होज्ज'त्ति भवेत् ? ततो 'व्रतं' पौषधाभिधानं कुर्यात् , श्रमणोपासक इत्युपस्कारः, 'इतरथे ति तदभावे 'न वेत्ति'नव कुर्यात , इति प्रतिपदादिषु पौषधस्यानियतत्वे बीजमिति कटाक्षितोऽर्थः, अयम्भावः-अष्टमीचतुर्दशीपञ्चदशीषु तत्करणोत्साहवता किश्चिद्विशेषान्तरमनपेक्ष्यैव पौषधः कार्य इति चतुर्दश्यादेनियतत्वं, प्रतिपदादिषु तु न निसर्गतस्तत्करणं किन्तु कल्याणकाद्युत्सव विशेषवच्ये सतीति तासामनियतत्वमिति, अतो भाद्रपदविशदचतुर्थी पर्युषणारूपलोकोत्तरोत्सवसद्भावात्तत्करणनैयत्यमायातं, न चात्र बीजे दोपलेशोऽपि पूर्वपरिकल्पितः, उक्तविभाषया तन्निरासात् , तथा “पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेया"विति हारिभद्रीयावश्यक(वृत्ति)श्रावकज्ञप्तित्तिपश्चाशकवृत्तिवाक्यस्य नियतदिवसं नियतदिवसं प्रतीति प्रतिनियतदिवसं. तत्रानुष्ठेयाविति पदार्थसमर्थनया नियतनियतदिनेष्वेव तद्ग्रहणमनुमतं, तथाच भवत्परिकल्पितबीजद्वयसङ्गत्या प्रतिपदादौ तदनियततोक्त्या तदग्राह्यत्वमेव बलादायातं स्यात् ,
अनिश्चैतदायुष्मतः, अस्मदभिप्रायेण तु कल्याणकोत्सवविशेषवत्सु प्रतिपदादिष्वपि तन्नियतत्वं स्यात् , तथाच तास्वपि तद्ग्रहणमिति Elन विरोधलेशः, तस्मादेतदेव तत्र वीजमाधेयमिति, ननु तीर्थकृतां वहुत्वेन प्रतितीर्थकरं च बहूनां कल्याणकानां भावात्कल्याणकानां सर्व
तिथिष्वपि सम्भवात्सर्वदेव तद्ग्राह्यतयाऽऽयातमिति तटस्थ मतिमपनेतुमाह 'ते पुण'त्ति प्राकृतत्वात्तानि पुनः कल्याणकानि न सदा भवन्ति, येन सर्वा अपि तिथयोऽत्र समाराध्या भवेयुः, किन्तु नियमितदिनेष्वेवेति भावः, तत्र हेतुमाह 'नियमितदिनग्रहणेन' नियमितानि-गणना
Loading... Page Navigation 1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210