Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha

View full book text
Previous | Next

Page 163
________________ इत्यादि "जाव अज्ज पख्खस्स संधी"इति (२७५पत्र) नवपर(पकरण)वृत्तिवाक्यमपि शंखाधिकारे समनुसरणीयं, न च प्रज्ञप्त्यां यद्यपि पाक्षिकशब्देन परभवभिया अभयदेवाचाश्चतुर्दशो पञ्चदशी वा न नामग्राह न्ययमि, तथापि चतुर्थकरणात्याक्षिकशब्देन चतुर्दश्यैवानुमास्यते पञ्चदश्यां तु षष्टापत्तिः स्यादिति वाच्यं, तस्य चतुर्दश्यामभक्तार्थ करणे नियमाभावात् . तथात्वस्य तस्मिन् पुरा भोजननिमन्त्रणाभ्युपगमेन भवताऽप्यङ्गीकारात् , तथा च न पष्ठतपःप्रसङ्गः, पञ्चदशीपक्षनिक्षिप्तान्यदोषाणां भूतेष्टा(चतुर्दशी)पक्षेऽपि सदृक्षत्वं, तुल्ययोगक्षेमत्वात् , प्रत्युत 'पक्षेऽर्द्धमासे भवं पाक्षिक मिति व्युत्पच्या पश्चदश्यापत्तिर्वज्रलेपायिता, चतुर्दश्यामर्द्धमासत्वासम्भवात्, तथा “दिवसो पोसहो पख्खो वइवतो"इति पाक्षिकसूत्रे, एतच्चूणौं "पोसहो-अट्टभिचउद्दसीसु उववासकरणं. सेस कंठ” एतद्वृत्तौ च “दिवसो-दिनं, कि विधः ? 'पौषधः' पर्वरूपः तथा 'पक्षोऽर्द्धमासरूपो व्यतिक्रान्त" इत्येवम्भूतग्रन्थपद्धत्या चतुर्दश्याः पक्षापर्वणः पार्थक्याभिधानमपि विभाव्य, तथा “पख्खियपोसहिएसु, कारेइ तवं सयं करोति य" इति व्यवहारसूत्र(भाष्य)दशमोद्देशके (४३पत्रे), तवृत्तिः "पाक्षिकेऽईमासपर्वणि, पौषधिकेषु चाष्टम्यादिषु पर्वसु तपः कारयति स्वयमपि करोति चेत्यर्थः" । ननु चतुर्दश्यां पाक्षिककल्पनयाऽन्यस्यां चतुर्दश्यां पक्षान्तो भवत्येवेति विवक्षया सर्वमपि भवदुक्तमस्माभिः प्रत्युक्तमेवेति चेन्न, श्रीजंबूद्वीपप्रज्ञप्त्यां श्रीसूर्यपज्ञप्त्यां पञ्चदश्यामेव पक्षान्तश्रवणात् , तथाहि-"एगमेगस्स णं भंते ! पख्खस्स कति दीहा ?, गोयमा ! पण्णरसदिवसा, तं जहा-पडिवादिवसे बीयदिवसे जाव पन्नरसे दिवसे"इति (पत्र १४७) पाठात् , तथा "पाडिवयबीयतइया, चउत्थी तह पंचमी य छठी य । सत्तमिअमीनवमी, दसमी एकारसी चेव ।।०३। बारसितेरसिचाउ-इसी य निठवणीया य पन्नरसी। किण्हंमि य जोण्डंमि य, एयाउ तिही मुणेयवा ।१०४।" इति ज्योतिष्करण्डक- | वाक्याच पञ्चदश्यामेव पक्षान्तः, तथा “जा सा चरमा रयणी"इति दशाश्रुतस्कन्धवाक्याचामावास्यामेव चरमरजनीत्वमवगम्यं, तथा

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210