________________
मबसेयं, अभीष्टदेवतानामानन्त्येऽपि पार्श्व इति पदोपादानं परमगुरूणां श्रीमन्नवाङ्गी विवरणकरणगुरूणां श्रीमदभयदेवमूरिमुरतरूणामुपकारित्वेन तदनुयायिनामस्मदादीनां सुतरामुपकारकारकत्वमस्यावगमयति, वांछितदायकत्वं तु विघ्नव्यूहव्यपोहकत्वाऽविनाभावि, नहि विघ्नव्यूहमनपोह्य वांछितदायकत्वं घटामास्कन्दति, तथाच दुरितध्वंसक्षमत्वमप्यस्य निव्यूह, किम्भूतं पौषव्रतपरमार्थ ? 'सुरमहितश्रुतपयोनिधिमध्यगतं' सुरै-देवमहित-समभ्यर्चितं सद्भुतगुणः संस्तुतं वा यच्छ्त-सिद्धान्तस्तदेवालब्धयध्यत्वादिगुणसाधर्म्यणोपचारात्पयोनिधिःसमुद्रस्तस्य यन्मध्यं तद्गत-प्राप्तं येन स तथा तं, सिद्धान्तान्तर्गतमिति भावः, पुनः किम्भूतं पौपधव्रतपरमार्थ ? 'जनानां प्रस्तावत् भव्यसच्चानां सुहितार्थ' मुष्टु-शोभनो हित एवार्थः-प्रयोजनं यस्य स तथा तं, अथवा 'मुहितार्थ सुष्टु हितनिमित्तमिति क्रियाविशेषणं, अन्योऽपि परमकारुणिकः पश्यतीति पश्यस्तं पश्य-सर्वज्ञं प्रणम्य 'सुरमथितश्रुतपयोनिधिमध्यगतं' सुरमथितश्चासौ श्रुतः प्रसिद्धश्चासौपयोनिधिश्च तस्य मध्यगतमन्तःस्थं 'अर्थ'द्रव्यं-रत्नादिरूपं 'शुद्धदृष्टया' अञ्जनविशेषविशिष्टचक्षुषा 'लब्ध्वा' उपलभ्य 'जनानां' सांयात्रिकलोकानां दर्शयति| समादेयतया प्रकटीकरोति, किम्भूतमर्थ ? 'पौपधत्रतपरं' पौषधव्रते-इष्टजनपोषाभिग्रहे परं-प्रकृष्टं, किमर्थ ? 'सुखितार्थ' सुखिनो भावः मुखिता तदर्थ, सुखित्वनिमित्तमित्यर्थः, अत्राभिधेयः पौषधः, हितार्थपदेन कर्तृश्रोतृगतं प्रयोजनं, सम्बधस्तु वाच्यवाचकभावलक्षणोऽधिकारी तु प्रकरणादगारीति गाथाद्वयार्थः ।१-२॥ अथ प्रारब्धप्रकरणे अभिधेयं पौषधव्रतस्वरूपमुपवर्णयितुं गाथामाह
आरंभदोसभारु-व्वहणेण य परिकिलंतचित्तस्स । आसासमिव पोसह-वयं पसंसंति वरगिहिणो ।३। व्याख्या-गृहं विद्यते यस्य स गृही, वरश्चासौ गृही च वरगृही, तस्य वरगृहिणः, गृहस्थस्यापि वरत्वं गुरुपादमूलगृहीतजिनशासनप्रसिद्धाणुव्रतादिदेशविरतिमत्त्वात् , यतः संसारवासादतिशयोद्विग्नमानसा अपि मोक्षं यियासवोऽपि विशिष्टवीर्यान्तरायक्षयोपशमा