SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ खरतर जयः सोमोया ॥२॥ ऽसद्दिपुण्णमामानरुत्साहवचात् चित्त-मानवादोषः आरम्भदोपः, पौषध भावेन पण्डितवीर्यमनुद्योतयन्तः सांसारिकपरिकरान्तःस्था देशविरतिरता गृहिणः समुपलभ्यन्ते, तस्माद्वरगृहिणो-विशिष्टगृहस्थस्य 'पौषधपत्रिंशिका व्रत पौषधोपवासलक्षणं, 'आश्वासमिव विश्रामस्थानमिव प्रशंसति तीर्थकरगणधरादय इत्युपस्कारः, किम्भूतस्य वरगृहिणः ? 'आरम्भदोषभारोद्वहनेन परिक्लान्तचित्तस्य' आरम्भ एव-सावधव्यापार एव जीवस्य दुष्टताकरणकारणत्वाद्दोषः आरम्भदोषः, स एव गुरुत्वहेतुत्वाद् भारस्तस्योद्वहन मुत्पाटनं तेन परिक्लान्तमिव परिक्लान्तं-खिन्नं निरुत्साहवत्त्वात् चित्त-मानसं यस्य स, तस्य, तथाचोक्तं श्रीस्थानाङ्गे | चतुर्थस्थाने (२३६ पत्रे) 'जत्थवि य णं चाउद्दसऽसुद्दिष्टपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेइ तत्थवि य से एगे आसासे पण्णत्ते ३" इत्याद्यभ्यूज़, इति गाथार्थः।३। अथाभिधेयनिर्णयाङ्गभृतसंशयस्य बीज विप्रतिपत्तिरूपमाह पइदियहं सो कीरइ, नियमियपव्वेसु पख्खियाइसु वा । इय पोसहोववासे, विप्पडिवत्ती समख्खाया ।।। ____ व्याख्या-'पौषधोपवासे' उक्तस्वरूपैकादशव्रतरूपे 'इति' एवम्भूता 'विप्रतिपत्ति'विवदमानयो,दिनोर्विवादपदं 'समाख्याता'प्रोक्ता, इतीति किं ?, 'स' पौषधोपवासः 'प्रतिदिवस' प्रतिदिनं यथावकाशमिति यावत् क्रियते' विधीयते श्राद्धैरिति शेषः 'वा' अथवा 'नियमित 2पर्वसु'नियमितानि-नामग्राहं पौषधे नियुक्तानि यानि पर्वाणि तेषु नियमितपर्वसु, पर्वणां बहुत्वेन नियमितपर्वस्वेव पौषधोपादानं न्याय्यमिति ज्ञापनार्थ नियमितपदोपादानं, दशाश्रुतस्कन्धनिर्युक्तौ पञ्चकपरिहाण्यादिव्यवस्थायां पञ्चम्यादितिथीनामपि पर्वत्वेन व्यपदिश्यमानत्वात् , P न च तेषु पौषधोपादानं क्वापि न्यरूपि, ततो नियमितपर्वस्विति मुष्टूक्तं. तान्येवाह-'पाक्षिकादिषु' गीतार्थाचरणया पाक्षिक-चतुर्दशी तदा दिर्यपामष्टम्यादिपर्वणां तानि तथा, तेषु चतुर्दश्यष्टम्युद्दिष्टापूर्णमासीप्रभृतिष्वित्यर्थः, तथा च प्रतिपदादिषु सर्वास्वपि तिथिषु पौपधो ग्राह्य Ka इति पूर्वपक्षपरामर्शः, नियमितेष्वेव पर्वसु स ग्राह्य इति सैद्धान्तिक सम्मतमिति भावः।४। अथ परवादिविकल्पितपूर्वपक्षे प्रतिवचनमाह ॥२ ॥
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy