SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ पौषध षटत्रिशिका खरतर जयसोमीया रूपं ? कदा ? कीदृशं? कैः ? कथं ? विधेयमित्यादिरूपमैदम्पर्य पौषधव्रतपरमार्थस्तं, किं कृत्वा ?, 'पास'मिति सर्वभावान् पश्यतीति निरुक्तात् पार्श्वः, अपश्यच्चान्धकारेऽपि महान्धकारसोदरं काकोदरं गर्भानुभावाज्जननीति पितृदत्ताभिधानो वा पार्श्वः, पूर्वानुपूर्व्याऽ(स्याम)वसर्पिण्यां त्रयोविंशस्तीर्थकृत , त प्रणम्य प्रकर्षण कायवाङ्मनोभिः प्रहीभूय, प्रणम्येति क्यप्प्रत्ययोऽभिधेयापेक्षया समानकर्तृत्वं पूर्वकालिकत्वं च प्रणामस्य ध्वनयति, तेन पुरा पार्श्वप्रणतिः पश्चात्पौषधव्रतपरमार्थदर्शन मिति ध्येयं, 'प्र'शब्दोऽत्र भक्तिश्रद्धाऽतिशयलक्षणप्रकर्षद्योतकस्तेन पार्श्व प्रणम्याहं पौपव्रतपरमार्थ दर्शयामीत्यायात, किं कृत्वा ? 'शुद्धदृष्ट्या'सम्यग्दर्शनेन गुरुवचनाअनशलाकासम्पर्कसमुद्घाटितान्तरचक्षुपा च 'लब्ध्वा' प्राप्य, किं भूतं पार्श्व ? "पसरियनाणपयासं” 'प्रसृतः' प्रकर्षण विस्तृतो ज्ञानमेव केवलादगमरूपमेव प्रकाशो यस्य सः, तथा तं प्रस्तज्ञानप्रकाश, अथवा ज्ञानश्च प्रकाशश्च ज्ञानप्रकाशौ, प्रसृतौ ज्ञानप्रकाशौ केवलज्ञानशरीरतेजसी यस्य स तं, इत्यनेन भगवति ज्ञानातिशयः प्रशंसितः, पुनः किं भृतं पार्श्व ? 'सर्वगुणवास' सर्वे च ते गुणाश्च सर्वगुणास्तेषां, सार्वाणामहंतां वा ये गुणास्ते सार्वगुणास्तेषां वास इच-आलय इव यः स, तं सर्वगुणवासं सार्वगुणवासं वा "वासोवेश्मन्यवस्थाने" इत्यनेकार्थः, यद्वा सर्व जानाति सर्वेभ्यः प्राणिभ्यो वा हितः सार्वः, स चासौ गुणवासचेति कर्मधारये सार्वगुणवासस्तं, पुनः किं भूतं पार्थ ? 'अतिशयराशिसमृद्ध' जगतोऽप्यतिशेरते जिना एभिरित्यतिशयाः सहजकर्मक्षयोत्थसुरकृतरूपाश्चतुस्त्रिंशत. वाग्गुणाश्च तेषां यो राशिस्समूहस्तेन समृद्धं इत्यनेन पूजातिशयो वचनातिशयश्च समबसेयौ, एतादृशो भगवानपायानां मूलत एवोन्मूलनाद्भवेदित्यपायापगमातिशयः, एतावता भगवति सर्वाधिकगुणत्वं प्रतिपाद्य परोपकारकारित्वेन तस्मिन्नेव सकलजनादेयत्वं विशेषणेनाह-पुनः किं भूां पार्थ ? 'वांछितदानेने'प्सितवस्तुवितरणेन सुप्रसिद्धं' लोके विशिष्टपुरुपादेयतया विदितं, एतावतवास्याभीष्टदेवताकत्वेन शास्त्रादौ नमस्करणीयत्व
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy