________________
श्रीसर्वज्ञाय नमः सकलभट्टारकपुरन्दरसविज्ञचूडामणिश्रीमदकब्बरसाहिप्रदत्तयुगप्रधानपदविभूषिताचार्यप्रवरश्रीमज्जिनचन्द्रसूरीश्वरसाम्राज्यवर्तीवाचनाचार्यश्रीमत्प्रमोदमाणिक्यवाचंयमविनेयावतंसश्रीमदकब्बरसाहिसंसल्लब्धजयमहोपाध्यायश्रीजयसोमगणिवरविरचिता स्वोषज्ञवृत्तिविभूषिता
पौषधषट्त्रिंशिका.
जैनचन्द्रं वचः स्मृत्वा, ध्यात्वा श्रीश्रुतदेवतां । पौषधस्य षट्त्रिंशिका, विवृणोमि समासतः ।। इह हि सकलविबुधकुलानुकूल विघ्नोपशममूल स्वसमयसमुचितमभीष्टविशिष्टदेवतानमस्काररूपं पारिप्सितप्रकरणकरणाव्यवहितपूर्वसमये शास्त्रसंसिद्धिसाधनं समयसमयानुसारितया सर्वशिष्यपशिष्यशिक्षायै विशिष्टबलं वाचिकं मंगलं प्रेक्षावत्प्रवृत्त्यङ्गमभिधेयादिचतुष्टयं च गाथाद्वयेनाहपसरियनाणपयासं, पासं पणमित्तु सव्वगुणवासं । अइसयरासिसमिद्धं, वंछियदाणेण सुपसिद्धं । १ । सुरमहिअसुअपओणिहि-मज्झगयं लहिअ सुद्धदिछीए। पोसहवयपरमऽत्थं, दंसेमि जणाण सुहियऽत्यं ।२।।
व्याख्या-अहं पौषधव्रतपरमार्थ 'दर्शयामि' प्रकटीकरोमीति मूलान्वयः, तत्र पोष-पुष्टिं प्रक्रमाद्धर्मस्य धत्ते धातूनामनेकार्थत्वा. करोतीति पौषधोऽष्टमीचतुर्दशीपूर्णिमाऽमावास्याऽऽदिरूपपर्वदिनानुष्ठेयो व्रतविशेषः, पौषध एव व्रतं पौषधव्रतं, तस्य परमार्थस्तत्कि