Book Title: Pratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Author(s): Rushabhdev Kesarimal Samstha
Publisher: Rushabhdev Kesarimal Samstha
View full book text ________________
सकस्वरूपवर्णने, उद्दिष्टापदेन प्रसिद्ध कल्याणकादिषु सुतिथिष्वपि, 'प्रसिद्धाः सुरासुरनरविद्याधराराध्यत्वेन विख्यातास्तथा 'कल्याणकै'जिन - च्यवन जन्मदीक्षाज्ञान निर्वाणादिरूपैरुपलक्षिताः सुतिथयः, ततः कर्म्मधारये प्रसिद्ध कल्याणकादिसुतिथयस्तास्वपि एतद्व्रतं' पौषधत्रतं ग्रहणद्वारा संगृहीतं दृष्टव्यं इति शेषः तथा च तत्सूत्रं "तत्थ णं नालंदाए बाहिरियाए लेवे णामं गाहावती होत्या x x जाव अहिगयजीवाजीवे xx जाव चाउद्दसमुद्दिद्वपुण्णमासिणीसु पडिपुण्णं पोसहं सम्ममणुपालेमाणे xx बिहरइ, व्याख्या- चतुर्दश्यष्टम्यादिषु तिथिषु 'उप (उद्) दिष्टासु' महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु तथा 'पूर्णमासीषु च' तिसृष्वपि चतुर्मासक तिथिष्वित्यर्थः, एवम्भूतेषु धर्मदिवसेषु सुष्ट- अतिशयेन प्रतिपूर्णो यः पौषधो व्रताभिग्रहविशेषस्तं प्रतिपूर्ण - आहारशरीरसत्कारब्रह्मचर्याव्यापाररूपं पौषधमनुपालयन् सम्पूर्ण श्रावकधर्ममनुचरती " ति (सूत्रकृताङ्गे ४०८ पत्रे), तथा च श्रीशीलाङ्काचार्यै 'रुद्दिष्टा' शब्देन कल्याणकादिप्रसिद्ध तिथिष्वपि लेपश्रावकस्य पौषधः समुपदिष्टस्तथाच कल्याणकतिथिष्वपि पौषधत्रतमादेयमिति भावार्थ: । ६ । ननु तदर्थयुक्त्या कल्याणकादितिथिषु पौषधव्यवस्थाsaस्थितावपि " मण्डूकतोलन" न्यायेन शेषपूर्णिमानाममावास्यादीनां चाऽनङ्गीकारात्तासामनाराध्यत्वम निष्टमप्यायातमेवेत्यारे कामपा कुर्वन्नाह
चउमासया तिरित्ता, वि पुण्णिमा मावसापसिद्धत्ता । उद्दिछपए निहिया, तेहि वि संवच्छव्वि तहिं |७|
व्याख्या- 'तहिं'ति तत्र श्रीसूत्रकृताङ्गे 'तैरपि ' श्रीशीलाङ्काचार्यैरपि किम्पुनरन्यैः १, 'चतुर्मासकातिरिक्ता'चतुर्मासकत्रयव्यतिरिक्ता 'अपि शब्दः समुच्चये, स च भिन्नक्रमस्तेन नवपूर्णिमा अमावास्याश्च द्वादश' प्रसिद्धत्वा' त्पुण्यतिथित्वेनेति शेषः, किं ?' सांवत्सरिकवत्' पर्युषणा पर्ववत् उद्दिष्टापदे' निहिता' स्थापिता, अयम्भावः - 'उद्दिष्टापदेन तु पुण्यतिथित्वेन प्रख्यातत्वमावेदितं, पूर्णिमाऽमावास्यानां तु प्रसिद्धत्वं परसमये स्वसमये च नियतमेव, परसमये यथा विष्णुपुराणे “चतुर्दश्यष्टमी चैव, अमावास्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र !, विद्धि
Loading... Page Navigation 1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210