SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सकस्वरूपवर्णने, उद्दिष्टापदेन प्रसिद्ध कल्याणकादिषु सुतिथिष्वपि, 'प्रसिद्धाः सुरासुरनरविद्याधराराध्यत्वेन विख्यातास्तथा 'कल्याणकै'जिन - च्यवन जन्मदीक्षाज्ञान निर्वाणादिरूपैरुपलक्षिताः सुतिथयः, ततः कर्म्मधारये प्रसिद्ध कल्याणकादिसुतिथयस्तास्वपि एतद्व्रतं' पौषधत्रतं ग्रहणद्वारा संगृहीतं दृष्टव्यं इति शेषः तथा च तत्सूत्रं "तत्थ णं नालंदाए बाहिरियाए लेवे णामं गाहावती होत्या x x जाव अहिगयजीवाजीवे xx जाव चाउद्दसमुद्दिद्वपुण्णमासिणीसु पडिपुण्णं पोसहं सम्ममणुपालेमाणे xx बिहरइ, व्याख्या- चतुर्दश्यष्टम्यादिषु तिथिषु 'उप (उद्) दिष्टासु' महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु तथा 'पूर्णमासीषु च' तिसृष्वपि चतुर्मासक तिथिष्वित्यर्थः, एवम्भूतेषु धर्मदिवसेषु सुष्ट- अतिशयेन प्रतिपूर्णो यः पौषधो व्रताभिग्रहविशेषस्तं प्रतिपूर्ण - आहारशरीरसत्कारब्रह्मचर्याव्यापाररूपं पौषधमनुपालयन् सम्पूर्ण श्रावकधर्ममनुचरती " ति (सूत्रकृताङ्गे ४०८ पत्रे), तथा च श्रीशीलाङ्काचार्यै 'रुद्दिष्टा' शब्देन कल्याणकादिप्रसिद्ध तिथिष्वपि लेपश्रावकस्य पौषधः समुपदिष्टस्तथाच कल्याणकतिथिष्वपि पौषधत्रतमादेयमिति भावार्थ: । ६ । ननु तदर्थयुक्त्या कल्याणकादितिथिषु पौषधव्यवस्थाsaस्थितावपि " मण्डूकतोलन" न्यायेन शेषपूर्णिमानाममावास्यादीनां चाऽनङ्गीकारात्तासामनाराध्यत्वम निष्टमप्यायातमेवेत्यारे कामपा कुर्वन्नाह चउमासया तिरित्ता, वि पुण्णिमा मावसापसिद्धत्ता । उद्दिछपए निहिया, तेहि वि संवच्छव्वि तहिं |७| व्याख्या- 'तहिं'ति तत्र श्रीसूत्रकृताङ्गे 'तैरपि ' श्रीशीलाङ्काचार्यैरपि किम्पुनरन्यैः १, 'चतुर्मासकातिरिक्ता'चतुर्मासकत्रयव्यतिरिक्ता 'अपि शब्दः समुच्चये, स च भिन्नक्रमस्तेन नवपूर्णिमा अमावास्याश्च द्वादश' प्रसिद्धत्वा' त्पुण्यतिथित्वेनेति शेषः, किं ?' सांवत्सरिकवत्' पर्युषणा पर्ववत् उद्दिष्टापदे' निहिता' स्थापिता, अयम्भावः - 'उद्दिष्टापदेन तु पुण्यतिथित्वेन प्रख्यातत्वमावेदितं, पूर्णिमाऽमावास्यानां तु प्रसिद्धत्वं परसमये स्वसमये च नियतमेव, परसमये यथा विष्णुपुराणे “चतुर्दश्यष्टमी चैव, अमावास्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र !, विद्धि
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy