________________
पौषध
ज
खरतर जय| सोमीया
पत्रिंशिका
॥४॥
पर्वदिनेष्वेव तृतीयशिक्षाव्रतमाख्यातदन्तो भगवन्तः, तथा विपाकश्रुतेऽपि सुबाहुमभृतिषु दशसु सुखविपाकीकाध्ययनेषु सूत्रपाठेनैव चतु- दश्यादितिथिषु नामग्राइं पौषधवतमबोधि, तथोपपातिकोपाङ्गे अम्बडोपासकवर्णकेऽपि चतुर्दश्यादितिथिष्येव पौषधवर्णनं सर्वविदो निवेदितवन्तः, यत्त्वेतस्य परिव्राजकवेषवत्त्वेन भिक्षावृत्तिवर्तनादिना स्वयं पाकादिसावद्यवर्जकस्यापि अव्यापारशरीरसंस्कारयोरपि प्रतिनियतता करणेन देशतस्ततोऽपि निवृत्तस्यापि ब्रह्मचारिणोऽपि पौपधकरणे सार्वदिकखानिरूपण, तत् शक्त्यभावात्सर्वदा पौषधवतं कर्तुमशक्यमिति तद्वतस्य चतुर्दश्यादितिथिनियमन मिति विपक्षविवक्षितवाक्याभासस्योपहास्यतामावेदयति, तस्य सुतरां सावकाशत्वात् , नह्येतत्तीर्थीयोपासकानां सर्वेषामपि शक्तिविशेषाभावत्वं भवदुक्तं विनाभक्तं कोऽपि प्रत्येति, तथा श्रीराजप्रश्नीयोपाङ्गेऽपि चित्रोपासकवर्णके (१२२ पत्रे) "चाउद्दसऽमुद्दिपुण्णमासिणीसु पडिपुण्णं पोसह सम्म अणुपालेमाणे"इति पाठेन तथा "चतुर्दश्यामष्टम्या मुद्दिष्टाया'मित्यमावास्यायां पौर्णमास्यां च 'प्रतिपूर्ण महोरात्रं यावत् 'पौषध'माहारादिपौषधं सम्यग् अनुपालयन्” इति व्याख्यानेन, तथा श्रीटाणावृत्तौ चेटकराजवर्णके "चाउद्दसऽमुद्दिपुण्णमासिणीसु पडिपुण्णं पोसह अणुपालेमाणो विहरइ” एतद्व्याख्या-"उद्दिदृत्तिअमावास्याः पुण्णमासिणी त्ति-पूर्णमासी"इति पाठेन च पर्यदिनेष्वेव पौषधवतमावेदितमिति, एवं सर्वैरपि बहुश्रुतैः प्रतिश्रुतं विधिचरितवादप्रवादे पर्वस्वेव तद्व्यक्तीकृतं नापर्वस्वपीति सूक्ष्मेक्षिकया विभाव्यमिति गाथार्थः ।। न केवलमेता एव श्रुत तिथयः पौषधकरणे. ऽङ्गीकार्याः, किन्तु कथञ्चिदागमपदस्यार्थान्तरव्याख्यानेन गीतार्थान्तरमूचिता अन्या अपीत्याह
तह उद्दिपएणं, पसिद्धकल्लाणयाइसु सुतिहीसु । संगहियं वयमेयं, सिरिसीलंगेण बितियंडगे । ६ । व्याख्या-'तथेति अप्यर्थे, स च भिन्नक्रमस्तेन श्रीशीलालेन'श्रीशीलाङ्काचार्येण 'द्वितीयाङ्गे श्रीसूत्रकृताङ्गे त्रयोविंशाध्ययने लेपोपा