________________
नियमेनाष्टम्यादिपर्वसु-अष्टमीचतुर्दश्यादिपूत्सवतिथिष्विति (२७१ पत्रे) नवपदप्रकरणमूत्रवृत्तिवाक्यात् , तथा “पोष-पुष्टिं प्रक्रमाद्धर्मास्य धत्ते-करोतीति पौषधः-अष्टमीचतुर्दशीपूर्णिमाऽमावास्यादिपर्वदिनानुष्ठेयो व्रतविशेषः" इति धर्मरत्नप्रकरण(द्वितीयभाग ६४ पत्रे)वृत्तिकद्देवेन्द्रमूरिवाक्यात् , तथा "चतुष्पा चतुर्थादि-कुव्यापारनिषेधन”मिति (पत्र १७८) योगशास्त्रात्तवृत्तेश्चेत्यादिग्रन्थसार्थयाठाद्विधिवादेन | श्रावकाणां पर्वस्वेव पौषधव्रतं श्रुतधरा निर्धारयाश्चः , न सार्वदिकं, यदि सामायिकवतवत्तत्सार्वदिकं स्यात्तदा श्रुतपारदृश्वानः प्रतिपदादितिथिष्विति लिवि(लिपि)सात्कुयुस्तिथीनां तदादित्वात् , न च सर्वदा तत्करणशक्तेरभावाचतुर्दश्यादिपर्वग्रहणमिति वाच्यं, शक्त्यभावादिति हेतोरापवादिकत्वेन विशेषविषयित्वात्सर्वोपासकसामान्यविधिवादे तस्यानवकाश एक, विधिवादस्य तत्तन्निमित्तविशेषनिरपेक्षत्वेनोसर्गपरत्वमिति भाव्यं, सर्वथा शक्त्यभाववत्यपि श्राद्धे श्रुतोक्तैतत्पर्वतिथिषु तदवश्यम्भावप्रसङ्गश्च स्यान्नचैवं सर्वतन्त्रसिद्धः सिद्धान्त इति, तथा चरिता| नुवादेऽपि स्थाने स्थाने देशविरतिमत्तत्तच्ट्राद्धनामपुरस्कारेण तद्गुणवर्णनावसरे पोषधवतं पर्वस्व प्ररूपयाश्चक्रुः, नापर्वसु, तद्यथा सूत्रकृताङ्गे त्रयोविंशाध्ययने लेपश्रावकवर्णनाधिकारे "चाउद्दसऽहमुद्दिटपुण्णमासीणीमु पडिपुण्णं पोसहं सम्ममणुपालेमाणे विहरति” तथा श्रीव्याख्याप्रज्ञप्त्यां (१३४ पत्रे) तुङ्गिकानगरीवास्तव्योपासकवर्णनाधिकारे तथा वरुणाधिकारे तथा आलम्भिकोपासकवर्णने तथा शंखपुष्कलीवर्णने तथा जयन्तीवर्णके तथा ऋषभदत्तोपासकोपनये तथा कार्तिकश्रेष्टिवर्णने तथोदायनराजाधिकारे तथा सोमिलाधिकारे अन्येष्वपि बहुष्वधिकारेषु "चाउद्दसऽमुद्दिपुण्णमासिणीसु” इत्यादि पाठेनाशठभावेन नियमितपर्वदिनेष्वेव पौषधकर्तृत्वं यथाप्रस्ताव गणभृदिरसूत्रि श्रुतसौधसूत्रणासूत्रधारः, तथा श्रीज्ञाताधर्मकथायां अरहन्नकश्रावकवर्णके तथा जितशत्रुसुबुद्धिश्राद्धसम्बद्धसम्बन्थे तथा नन्दमगिकारवणके एवं बहुषु स्थानेषु तथाभूतपाठपठनेन पर्वस्वेव पौषधव्रतमबोधि, तथोपासकदशासु आनन्दादिदशोपासकवर्णके दशस्वप्यध्यय नेषु